SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ AN M * तोसा सासणवण्णो पूजा भत्तीए बोजपक्खेवो । एवं गाणी बाहुल्लओ हियं चेव कुणइत्ति ॥९०७॥ एयारिसओ लोओ खेयण्णो हंदि धम्ममम्गम्मि । बुद्धिमया कायवो पमाणमिइ ण उण सेसोवि ॥९०८॥ संमूच्छिमप्रायोऽसशितुल्यो युक्तायुक्तविवेचनासहोऽत एव श्रवणदुर्बलो यत्किञ्चनश्रुतग्राहि, चेवेति समुच्चये, कोऽपि राजा आसीदिति । तथोत्तमधर्मायोग्यो विभक्तरूपदेवधर्मादिप्रतिपत्त्यसहिष्णुः प्रकृत्या श्राद्धो धर्मश्रद्धालुः, तथा कुप॥७५३॥ रिवारश्च दुःशिक्षितपरिवारानुगतश्च ।।८९९।। स चान्यदा मुग्धधर्मश्रद्धालुतया ऋषिमात्रदर्शनेन तथाविधबठरजनतपोधनावलोकनेन आवृत्त आक्षिप्तः सन्, तं प्रति पूजादाननिरतोऽभूत् । तत्र पूजाऽभ्युत्थानादिप्रतिरूपा, दानं च वस्त्रपात्रादिवितरणमिति । तेन च ऋषिणा कदाचित् तदग्रतः अन्यापोहः शाक्यादितीर्थान्तरोयनिरासः, तथा, अधिकरण| कथा अधिकरणस्य सस्थावरभूतोपमर्दरूपस्य कथा कृता, तत्र तन्निरास: यथते सन्मार्गविद्वेषिणः कुमार्गपुरस्कारिणश्च वर्तन्ते । अधिकरणकथा च नैतेषां त्रसस्थावरजीवपरिज्ञानं, तद्रक्षणोपायश्च कश्चिदस्तीति । एतच्च श्रुत्वासौ विपरिणतश्च तं प्रति विरक्तमानसः पुनः संवृत्तः, मूर्योऽयं य इत्थं परदर्शनगोचरमत्सरभरपरवशो वर्तत इति कृत्वा ॥९००। तेन च साधुना गीतनिवेदनं गीतार्थसूरिनिवेदन कृतम् । यथाऽसौ राजाऽस्मत्प्रज्ञापनाया विपरिणत आस्त इति । समये चागमस्तस्य सूरे राजान्तिके सम्पन्नः। ततस्तद्भावावगमस्तस्य राज्ञः सम्बन्धिनो भावस्य परिज्ञानमभूत्। सूरेः समये च राज्ञा पृच्छा कृता, यथा--'भगवन् ! कि तत्त्वम् ? इति । गुरुणा चोक्तमतिगंभीरं तत्त्वं स्वयमेव ज्ञातुमशक्यमित्यर्थः । स प्राह--साधयत कथयत यद्य वमतिगम्भीरं तथा ज्ञातुमशक्यम् । गुरुः-शृणूपयुक्तः सन् ॥९०१।। स्वस्ति ७५३।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy