________________
AN
M
* तोसा सासणवण्णो पूजा भत्तीए बोजपक्खेवो । एवं गाणी बाहुल्लओ हियं चेव कुणइत्ति ॥९०७॥ एयारिसओ लोओ खेयण्णो हंदि धम्ममम्गम्मि । बुद्धिमया कायवो पमाणमिइ ण उण सेसोवि ॥९०८॥
संमूच्छिमप्रायोऽसशितुल्यो युक्तायुक्तविवेचनासहोऽत एव श्रवणदुर्बलो यत्किञ्चनश्रुतग्राहि, चेवेति समुच्चये, कोऽपि
राजा आसीदिति । तथोत्तमधर्मायोग्यो विभक्तरूपदेवधर्मादिप्रतिपत्त्यसहिष्णुः प्रकृत्या श्राद्धो धर्मश्रद्धालुः, तथा कुप॥७५३॥
रिवारश्च दुःशिक्षितपरिवारानुगतश्च ।।८९९।। स चान्यदा मुग्धधर्मश्रद्धालुतया ऋषिमात्रदर्शनेन तथाविधबठरजनतपोधनावलोकनेन आवृत्त आक्षिप्तः सन्, तं प्रति पूजादाननिरतोऽभूत् । तत्र पूजाऽभ्युत्थानादिप्रतिरूपा, दानं च वस्त्रपात्रादिवितरणमिति । तेन च ऋषिणा कदाचित् तदग्रतः अन्यापोहः शाक्यादितीर्थान्तरोयनिरासः, तथा, अधिकरण| कथा अधिकरणस्य सस्थावरभूतोपमर्दरूपस्य कथा कृता, तत्र तन्निरास: यथते सन्मार्गविद्वेषिणः कुमार्गपुरस्कारिणश्च वर्तन्ते । अधिकरणकथा च नैतेषां त्रसस्थावरजीवपरिज्ञानं, तद्रक्षणोपायश्च कश्चिदस्तीति । एतच्च श्रुत्वासौ विपरिणतश्च तं प्रति विरक्तमानसः पुनः संवृत्तः, मूर्योऽयं य इत्थं परदर्शनगोचरमत्सरभरपरवशो वर्तत इति कृत्वा ॥९००। तेन च साधुना गीतनिवेदनं गीतार्थसूरिनिवेदन कृतम् । यथाऽसौ राजाऽस्मत्प्रज्ञापनाया विपरिणत आस्त इति । समये चागमस्तस्य सूरे राजान्तिके सम्पन्नः। ततस्तद्भावावगमस्तस्य राज्ञः सम्बन्धिनो भावस्य परिज्ञानमभूत्। सूरेः समये च राज्ञा पृच्छा कृता, यथा--'भगवन् ! कि तत्त्वम् ? इति । गुरुणा चोक्तमतिगंभीरं तत्त्वं स्वयमेव ज्ञातुमशक्यमित्यर्थः । स प्राह--साधयत कथयत यद्य वमतिगम्भीरं तथा ज्ञातुमशक्यम् । गुरुः-शृणूपयुक्तः सन् ॥९०१।। स्वस्ति
७५३।।