________________
। ७५१॥
निराबाषं ध्यायेदुखतकल्मषम् ॥३॥" इति । एतस्य च द्वितीयस्यापि ध्येयस्याभ्यासाद् दर्शनमवलोकनं सम्पद्यते । । स्वच्छाभ्रकगृहान्तरगतप्रदीपस्येव बहिः स्थितानामिति ॥८९३॥ सरजस्कविद्यामन्त्रादि सरजस्केणोपदिष्टं यद् विद्यादि र विद्यामन्त्रतन्त्रात्मरक्षादि तत् सर्वमतत्त्वं वत्तंत इति गुरुणा प्रतिपादिते तस्यास्तथादर्शनादतत्त्वरूपतयैवावलोकनात् विकल्पश्चित्तद्वैविध्यलक्षणो, यथा-पूर्वो ध्यानमार्गः प्रमाणतया प्रतिपन्नोऽप्यतत्त्वरूपः सम्पन्नो, माऽत एषोऽपि तथा भविष्यतीत्येवंरूपो जात इत्येवं शंकायां जातायां ज्ञानक्रियोपशमादिगुणान् गुरोरनन्यसाधारणानवलोकमाना स्वयमेव सम्पन्न दृढश्रद्वाना परिभावितवती, यथा-सत्यो गुरुरयम् । ततः पुनरपि पृष्टवती-भगवन् ! किं तत्त्वम् ? गुरुराह-उचितानुष्ठानं-यद्यदा कर्तुमुचितं ध्यानमध्ययनं देवतापूजादि साधुदानादि च तत् तदा विधेयमित्येवंलक्षणम् ।।८९४॥ विपर्यये बाधकमाह इतरथा उचितत्वमन्तरेण एतदेवानुष्ठानं छात्ररत्नपरिच्छित्तितुल्यं भणितं, प्रायेण बाहुल्येन, विघ्नभूतमन्तरायरूपं सदा सर्वकालमुचितफलस्य साधयितुमिष्टाद् दुःशकात् फलादन्यस्य साधयितुं योग्यस्य फलस्य विशेयमिति ॥८९५।। छात्र रत्नपरिछित्तिज्ञातमेव भावयति-पत्न्या रत्नसारं मणिखण्डितमाभरणं कण्ठाभरणादि श्रीफलं सम्पद्यत इति श्रुत्वा कश्चिच्छात्र आदी प्रथममेव शेषजीवनोपायपरिहारेण तत्परीक्षालग्नो रत्नपरीक्षायामादरणाद् ('चुक्को ततो सव्व'त्ति भ्रष्टस्ततः) सर्वस्मात् ग्रासाच्छादनादेरपि ॥८९६।। एवमेव 'ध्यानान्मोक्षः सम्पद्यते' इत्येतद् निशम्य समाकर्ण्य प्रथमं तु प्रथममेव शेषगुरुविनयशास्त्राभ्यासादिविहितानुष्ठानपरिहारेण तबग्नो ध्यानलग्नः, किं पुना रत्नपरीक्षालग्नश्छात्र इत्यपिहशब्दार्थः, 'चुक्कइत्ति भ्रस्यति नियमादुचितस्य सर्वस्योचितात् सर्वस्मादित्यर्थः । अयमत्राभिप्रायो, यथा सम्पूर्ण
।।७५१॥