SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ नपपत्नीनिदर्शनम् उपदेशपदा. त्यादिभिर्देवनिकायरिति । तत्र मानवाहनानि सचेतनान्यचेतनानि च तृतीयप्रकाराभ्यन्तर एव प्रविशन्ति । ये च महााग्रंथः भक्तिमात्राकृष्टाः करितुरगादयस्तियंगविशेषास्ते द्वितीयशालाभ्यन्तराले, ये च शेषधार्मिका देवदानवमानवास्ते यावद्देबस्तावत् प्रविशन्ति इति ।।८९२।। ततो यदा निश्चलचित्ता सा सम्पन्ना तदा साधनं निवेदनं गुरुणा कृतं, यथासमयः संकेतोऽयं यः प्रागुक्तः स नान्येषां तीर्थान्तरीयाणां वर्तते । तया च आमं--एवमिति प्रतिपन्ने गुरुणा कथितं, यथा-- ॥७५०॥ 'अन्येनापि ध्यानार्थिना तथारूपं तं भगवन्तं हृदयमध्ये परिकल्प्य देवदानवादिवत् तं यावत् प्रवेशः कर्त्तव्यः, ततस्तदुपरि प्रवेशोपरि 'अध्युष्टकला' इति सार्धाभिस्तिसृभिः कलाभिः समनुगतो भगवान् ध्येयः' । इहाऽष्टौ कला:--ज्ञानावरणादिकर्माष्टकरूपाः । तत्र घातिकर्मरूपाश्चतस्रः कियत्यपि चायुःकर्मकला केवलज्ञानोदयकाले भगवतः क्षीणा, शेषास्तु सा - स्तिस्रः कला अवशिष्यन्ते । अतस्ताभिः समनुगः केवलिविहारकालं यावद् ध्यातव्यः । तदुक्तमनेनैव शास्त्रकृता ब्रह्मप्रकरणे--"सर्व धर्मादि य: साक्षायुगपद्वेत्ति तत्त्वतः । रागादिरहितश्चैव स सर्वज्ञः सतां मतः ॥१॥ सार्धसत्त्रिकलोपेत- क्षीणसार्द्धचतुष्कलः । सर्वार्थ गिरतः श्रीमान् नृसुरासुरपूजितः ॥२॥ अन्वर्थयोगतश्चायं महादेवोऽहंतस्तथा । बुद्धश्च गीयते सद्भिः प्रशस्तै मभिस्तथा ॥३॥" इत्यादि । सार्द्ध सत्त्रिकलोपेत इत्यादि-सार्धाभिः तिसृभिः सतीभिः प्रशस्तकर्मत्वेन सुन्दराभिः कलाभिरुपेतः । अतोऽस्मादन्यत् सिद्धस्वरूपलक्षणं द्वितीयं ध्यानं ध्यातव्यम् , यथोक्तम-- "अनन्तदर्शनं ज्ञानं सम्यक्त्वादिगुणान्वितम् । स्वोपात्तानन्तरत्यक्तशरीराकारधारिणम् ॥१॥ साकारं च निराकारममूर्तमनरामरम् जिनबिम्बमिव स्वच्छस्फटिकप्रतिबिम्बितम् ॥२॥ लोकाग्रशिखरारूढमूदूढसुखसम्पदम् । सिद्धात्मानं ।।७५०।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy