________________
1.७४९॥
परिकीत्तिताः ॥१॥" पूर्वदले तत्पुरुषं पूजयेत् । “तारा' सुतारा' तरणी' तार यन्ती सुतारणी' । ईशानस्य कलापञ्च पूजयेच प्रयत्नतः ।।१॥" कणिकामध्ये ईशानं पूजयेत् । अत्रिंशत्कलोपेतं पञ्चतत्त्वसमन्वितम् । प्रासादं यो न जानाति नासो जानाति शंकरम् ।।१।। इति । ततः सा तत्र त्रिनयनदेवे स्थितचित्ता निरन्तरमेव समारूढमानसा बभूव ।।८९०॥ अन्यदा च तपःक्षीणसाधुदर्शनं षष्टाष्टमादिकष्टरूपतपःकृशीकृतकायस्य कस्यचिद् जैनमुनेदर्शनमभूत् तस्याः । ततो बहुमानात् सेवना पर्युपासना तया तस्य प्रारब्धा । तथा तत्प्रकारसमये पृच्छा ध्याने ध्यानगोचरा तया तदग्रतः कृता, यथा 'कीदृशं ध्यानम्' । तेन चागीतार्थत्वाद् दण्डककथने कृते यथाऽस्माकं दण्डको भिक्षादिकाले हस्तग्राह्यो यष्टिविशेष ईर्यापथिकाप्रतिक्रमणादिसमोऽग्रे कृत्वा ध्यायत इति । बाह्या ध्यानमार्गबहिर्वत्तिन एते जैना इत्यनुकम्पा दयाऽभूत् तस्याः ॥८९१॥ तेन च साधुना तां विषण्णपरिणामामुपलभ्य गीतनिवेदनं गीतार्थस्य कस्यचित् सूरेः कथनमकारि स्वप्रज्ञापनायाः । तेनापि प्रस्तावं प्राप्य तस्या आगमध्यानकथा। आगमे जनशासने यदस्ति ध्यानं तस्य कथा प्रज्ञापना कृता । गथास्मन्मते तावदेकोऽयं ध्यानमार्गः-"संपुन्नचंदवयणो सीहासणसंठिओ सपरिवारो । कायव्यो य जिणिदो केवलनाणुज्जलो धवलो ।।१।।" इति । ततस्तस्या ध्यानाभ्युपगमे सम्पन्ने तथा क्षेपे जाते कौतुकमभूत्, यथा--कियदूरं गावद् धार्मिकादिभिस्तत्र प्रवेशः क्रियते? । तत उक्तमाचार्येण 'यावदेवः । अयमत्राभिप्रायः-यदा भगवान् देशनार्थमुपतिष्ठते, तदैकेनैव महद्धिकेन वैमानिकदेवेन कदाचित् प्रकारयोपगतमशोकवृक्षाद्यष्टमहाप्रतिहार्योपेतं योजनाप्रमाणभूभामव्यापि समवसरणं निष्पाद्यते, कदाचिच्च सर्वैरेव भवनप
||७४९॥