SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उपदेशपदा पत्तीए रयणसारं आहरणं सिरिफलंति सोत्तूणं । आईए तप्परिच्छालग्गो चुक्को ततो सब्वा ॥८९६॥ नुपपत्नीमहाग्रंथ. एत्तो चिय झाणाओ मोक्खोत्ति निसामिऊण पढमं तु । तल्लग्गोवि हु चुक्छति नियमा उचियस्स सव्वस्स ॥८९७।। निदर्शनम ता सुद्धधम्मदेसण परिणमणमणुव्वयाइगहणं च । इय गाणी कल्लाणं सव्वेसिं पायसो कुणति ॥८९८॥ नृपपत्नी कस्यचिद् राज्ञः कलत्रम् । सा च सहजमन्दमोहमालिन्यतया निविण्णा-"जरामरणदौर्गत्यव्याधयस्ताव॥७४८॥ दासताम् । मन्ये जन्मैव धीराणां भूयो भूयत्रपाकरम् ॥१।।" इत्यादिवचनाकर्णनाद् भवादुद्विग्ना । ततः संसारचारकनिःसारोपायमन्वेषमाणा शुश्राव कुतोऽपि 'ध्यानाद् मोक्षः' इति । ततस्तद्ग्रहसमेता ध्यानविषयाऽत्यन्ताग्रहसंयुता जाता । अन्यदा 'ससरक्खे' इति कश्चित् सरजस्कः शैवव्रती तया पृष्टो यथा 'कोडशो ध्यानमार्गः' इति । कथितं च तेन, यथा-पद्ममध्ये चतुर्दलनाभिकमलाभ्यन्तरेऽपि त्रिनयना देवः काशकुसुमसंकाशदेहः शशिखण्डमण्डितोत्तमाङ्गः तृतीयनेत्रप्रवृत्तज्वलनज्वालासमुज्वलीकृताखिलदिग्वलयो देहार्धधृतप्राणप्रियपार्वतीको ध्यातव्यः । तथा च तत्प्रक्रियासिद्धि'ऋद्धि'धृति लक्ष्मी मघा क्षान्तिः स्वधाः स्थितिः । सद्यो देवकला ह्यष्टौ समासात् परिकीतिताः" । सद्यः-पश्चिमदले पूजयेत् । "रयो' रक्षा' रतिः पाल्या' काम्या कृष्णा' रतिः क्रिया । वृद्धिः कालश्च" रात्रिश्च" भ्रामणी' मोहनी'' तथा ।।१।। वामदेवकला होताखयोदश उदाहृताः" । वाणदेव उत्तरदले पूजयेत् ।। "ततो 'मोहो 'मदो 'निद्रा 'माया 'मृत्युभयं "जरा' अघोरस्य कला होताः समासात परिकीत्तिताः ॥१॥". दक्षिणदलेऽघोरं पूजयेत् । “निर्वृत्तिश्च' प्रतिष्ठाश्च विद्या' 'शान्तिस्तथैव च। तत्पुरुषस्य कला हाताश्चतस्रः | ॥७४८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy