________________
॥७४३॥
इहरा अण्णयरगमा विट्रेविरोहणाणविरहेण । अणभिनिविट्ठस्स सुयं इयरस्स उ मिच्छणाणंति ॥८८२॥
इतरथा यथोक्तपदार्थादिविभागव्यतिक्रमेण व्याख्यानकरणे श्रुतं सम्पद्यत इत्युत्तरेण सम्बन्धः। कथमित्याह-अन्य-- तरगमाद, इह गमा अर्थमार्गाः, ते च प्रतिसूत्रमनन्ताः संभवन्ति, यथोक्तं-"सव्वनईणं जा होज्ज वालुया सव्वउदहिज उदगं । एत्तो य अणंतगुणो अत्थो एगस्स सुत्तस्स ॥१॥" अतोऽन्यतरश्चासौ गमश्चान्यतरगमस्तस्मादेकस्यैवार्थमार्गस्याचालिताप्रत्यवस्थापितस्य समाश्रयणादित्यर्थः, दृष्टेष्टविरोधज्ञानविरहेण दृष्टः प्रत्याक्षानुमानप्रमाणोपलब्धः, इष्टश्च शास्त्रादिष्टोऽर्थस्तयोविरोधे बाधायां यज्ज्ञानमवबोधस्तस्य विरहेणाभावेन, अनभिनिविष्टस्येत्थ मेवेदं वस्त्वित्यकृताग्रहस्य श्रुतमागमार्थोऽधीयमानः सम्पद्यते, न तु चिन्ताज्ञानभावनाज्ञानरूपज्ञानता प्रतिपद्यते । इह त्रीणि ज्ञानानि श्रतज्ञानादीनि । तल्लक्षणं चेदं-"वाक्यार्थमात्रविषयं कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ।।१।। यत्तु महावाक्याजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुविसपि चिन्तामयं तत् स्यात् ॥२॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चः। एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥३॥" अशुद्धसद्रत्नदीप्तिसममिति । अशुद्धस्य मलिनस्य च ततः प्राक् सतः सुन्दरस्य रत्नस्य पद्मरागादेर्दीप्त्या तुल्यमिति । इतरस्य त्विति अभिनिविष्टस्य पुनमिय्याज्ञानं मिथ्याश्रुतरूपतां प्रतिपद्यते । इदमुक्तं भवति-इह कश्चित् 'एगे आया' इति स्थानाङ्गङ्गप्रथमसूत्रस्य श्रवणादेक एव हि मूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा वापि दृश्यते जलचन्द्रवत् ॥१॥" इत्येवं प्रतिपन्नात्माद्वैतवादः सङ्ग्रहनामैकनयाभिप्रायेणेदं सूत्रं प्रवृत्तमिति परमार्थमजानानः, तथाऽत्र मते दृष्टस्य पुरुष
॥७४३॥