________________
॥७४।।
Nषयायां प्रतिषेधविषयायां च क्रियमाणायां न दोषो जीवहिंसानुमत्यादिलक्षणः कश्चित् प्रज्ञापयितुः सम्पद्यते। यदागमे विहितं दानं तस्य विधिदेशनायां, यच्च तत्र निषिद्धं तनिषेधदेशनायां च न कश्चिद् दोष इत्यर्थः । तत्र चायमागमः"नायागयाणं कप्पणिजाणं अन्नपाणाईणं देसकालसद्धासकारकमजुयं आयाणुग्गहबुद्धीए संजयाणं दाणं"। तथा, समगोवासयस्स गं भंते ! तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणस्स कि कजति ?, गोयमा ! एगंतसो निजरा एव । समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्म अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणस्स कि कति ? गोयमा ! बहुया से निजरा अप्पे पावकम्मेत्ति" । तथा समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा अप्पडिहयपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलामेमाणस्स किं कज्जति ?, एगंतसो पावं कम्मे कज्जति" । तथा मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहि न कयावि पडिसिद्धं ॥१। संथरणम्मि असुद्धं दोण्हवि गिण्हततयाण हियं । आउरदिट्टते णं तं चेव हियं असंथरणे ॥२॥" आदिधार्मिकमाश्रित्य पुनरयमागमः--पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाऽविरोधेन न विरुद्धं स्वतश्च यत् ॥१॥ व्रतस्था लिङ्गिनः पात्रमपात्रास्तु विशेषतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥२॥" एवं चागमे व्यवस्थिते तद्वाधया आगमोल्लंघनरूपया विधिप्रतिषेधयोः क्रियमाणयोर्दोष इत्येष जीववधादिलक्षणो महावाक्यार्थगम्यस्तु महावाक्यार्थगम्य एव ।।८७९॥ महावाक्यार्थमेव निगमयन्नदम्पर्यमाह;--
H७४१॥
ECE