________________
उपदेशपद महाग्रंथ :
।। ७४० ।।
दानप्रशंसादिभिर्दान प्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधः, तन्निषेधे च क्षपणादिलाभान्तरायः । अत एव सूत्रकृतांगे पठ्यते - " जे उ दाणं पसंसंति वहमिछंति पाणिणं । जेणं पडिसेहंति वित्तिछेयं कुति ते ।। १ ।। 'उजुपयत्थाति' अयं च ऋजुरेव पदार्थः । एनमेवाह - एतौ द्वावपि प्राणिवध करणादिवृत्तिव्यवच्छेदौ पापावसमंजसो वर्त्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन । अयमभिप्रायः- धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ||१|| इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोर्जीव हिसानुमतिः सम्पद्यते । तथा; तथाविधशास्त्रसंस्कारात् स्वयमेव कैश्चिद्धर्माथिभिः प्रवर्त्यमानस्योक्तरपस्य दानस्य "बीजं यथेाषरे क्षिप्तं न फलाय प्रकल्पते । तथाऽपात्रेषु दानानि प्रदत्तानि विदुर्बुधाः ||१||" इत्यादिवचननिषेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति ।। ८७७॥ एवं पडिवत्तीए इमस्स तह देसणाए वोच्छेओ । तम्हा विसेसविषयं ददृण्वमिति वक्कत्था ||८७८||
एवमविशेषेण प्रतिपत्तौ पदार्थस्य तथाविधरूपतया वा दानविषयाया देशनाया व्यवच्छेदः प्राप्तः । न चासौ युक्तो, यतो दानशीलतपोभावनात्मकस्य धर्मस्य सर्वास्तिकशास्त्रेषु प्रतिपादयितुमधिकृतत्वात् । तस्मादहो सूरे ! विशेषविषयं विभागेनेत्यर्थः, द्रष्टव्यमिदं दानविधानं तन्निषेधनं चेति वाक्यार्थः ।। ८७८ । ।
आगमविहितं तम्मि पडिसिद्धं वाहिगिच णो दासा | तब्बाहाए दासोति महावक्कत्थगम्मं तु ||८७९॥ आगमविहितं शास्त्रानुमतं यद्दानं तस्मिन्नेवागमे प्रतिषिद्धं वा निवारितं यत् तदधिकृत्य देशनायां दानस्य विधिवि
व्याख्या विधी वा क्यमहा
वाक्यार्था दिभेदाः
।। ७४० ।।