________________
७३९॥
तुच्छा असमर्था बालवृद्धादिलक्षाणाः, अव्यक्ताश्चागीतास्तेिषां, न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषामेव षष्ठोत्सादीनां करणं प्राप्तम्, तेषामपि मुमुक्षुत्वात् । इतिः प्रागवत् । एतच्च तपोध्यानादिकरणमकरणं द्रष्टव्यं तुच्छाव्यक्तादीनाम । कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्तध्यानत्वेन तिर्यग्गत्याद्यशुभजन्महेतुत्वात् । इत्येष वाक्यार्थः ॥८७४।। आगमणीईए तओ एयाणं करणमित्थ गुणवंतं । एसा पहाणरूवत्ति महावकत्थविसओ उ ॥८७५।।
आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणाव. हम् । आगमनीतिश्चेयं-"तो जह न देहपीडा न यावि चियमससोणियत्तं च । जह धम्मझाणवडी तहा इमं हंइ कायव्वं ।।१॥" तथा । “कायो न केवलमयं परितापनीयो, मिष्ट रसर्बहुविधैर्न च लालनीयः । चितेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥२॥" एषा आगमनीतिः प्रधानरूपा सारभावमागता वर्तते धर्मे साध्ये । इत्येष महावाक्यार्थविषयः पुनरवगन्तव्यः ।।८७५।। अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाह ;एवं पसत्थमेय णियफलसंसाहगं तहा होइ । इय एस चिय सिट्ठा धम्मे इह अइदपजं तु ।।८७६॥
एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां । तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः । तथेति समुच्चये । भवत्येषैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहदम्पर्यमिदं पुनर्जेयम् ॥८७६।। तथा;दाणपसंसाईहिं पाणवहाईओ उजुपयत्यत्ति । एए दोवि हु पावा एवंभूओऽविसेसेणं ॥८७७।।
॥७