________________
।।७३५ ।।
वेषविपर्यासेऽपि शत्रुविशेषस्य यो विपर्यासो वैलक्षण्यं परिव्राजकादिलिंगधारणरूपं तत्रापि किं पुनः शत्रुविशेषे सतीत्यपिशब्दार्थः, एवं तत्समीपे पथिपृच्छार्थं गमनं न युज्यते, शत्रोरपि पथिकविश्वासनार्थं तथाविधवेषप्रतिपत्तेः सम्भाव्यमानत्वात् । तर्हि कि कर्तव्यमित्याशंक्याह - बालादिकेभ्या बालवृद्धमध्यमवयः स्येभ्यः स्त्रीपशुपालभामहादिरूपेभ्य एकान्तत एव सत्यवादितया सम्भाव्यमानेभ्यस्तं पुरुषं मार्गपृच्छायेोग्यं ज्ञात्वा ततस्तदनन्तरं युज्यते गमनम् । किमर्थमित्याह—इष्टफलार्थं इहेष्टं फलं निरुपद्रवमार्गपरिज्ञानं निमित्तेन मन पवनशकुनादिनाऽनुकूलेनेति ।।८६३।।
इत्थं प्रतिवस्तूपमारूपं दृष्टान्तमभिधाय दाष्टन्तिके योजयति ;
एवं तु पयत्थाई जाएजा एत्थ तंतणीईए । अइदंपअं एवं अहिगारी पुच्छित्ति ॥ ८६४ ||
एवं त्वनन्तरोक्तनीत्यैव पदार्थादीन् पदवाक्य महावाक्यार्थान् योजयेद् दाष्टन्तिकतया घटयेत् अत्र प्रस्तुते व्याख्यानविधौ । कथमित्याह - तन्त्रनीत्या श्रुतानुसारेण । तथा ह्यत्र दर्शनतुल्यः पदार्थो न तस्मादिष्टानिष्टयेोः प्राप्तिपरिहारी स्यातां शत्रोरपि तत्रानिवृत्तेः; शत्रुवेषभेददर्शनतुल्या वाक्यार्थो न तस्मादपीष्टसिद्धघादिभाव:, पूर्वोक्तादेव हेतो:; बालाबलादिभ्यस्तदवगमतुल्यस्तु महावाक्यार्थः, सिद्धयति चास्माजिज्ञासितोऽर्थः । ऐदम्पर्यं तु साक्षादाह- ऐदम्पर्यमेतद् यथा एवं शुद्धोऽधिकारी पन्थानं प्रष्टव्या नान्यः । इतिः प्राग्वत् ॥ ८६४॥
- अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्यांगानि दर्शयन्नाह ;
हिसिज ण भूयाइं इत्थ पयत्था पसिद्धगा चेव । मणमाइएहि पीडं सव्र्व्वेसि चैव ण करिजा ।।८६५ ।।
र
।।७३५ ।।