SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उपदेशपदा महाग्रंथः ॥७३४॥ सम्पूर्णैः पदार्थादिभिर्दशितैर्जायते श्रुतभावस्य शास्त्रपरमार्थलक्षणस्यावगमोऽवबोधः श्रोतुः । विपर्यये बाधकमाह--X व्याख्यान इतरथा त्वन्यथा पुनर्भवति विपर्यासो विपरीतशास्त्रार्थप्रतिपत्तिरूपोऽपि, हु शब्दात् संशयानध्यवसायौ गृह्यते । यदि स्वरूपा नामैवं ततः किमित्याह-अनिष्टफलप्रदश्च नरकादिदुर्गतिपातहेतुः पुनः स विपर्यासो नियमादवश्यम्भावेन ॥८६०॥ दृष्टान्तादि __अथैतानेव पदार्थादीन् परमतोपन्यस्त दृष्टान्तद्वारेण साधयितुमिच्छुराह;एएसि च सरूवं अण्णेहिवि वणियं इहं णवरं । सत्तुग्गहणट्ठद्धाणभटुंतण्णाणणाएणं ॥८६॥ एतेषां च पदार्थादीनां स्वरूपमन्यैरपि तीर्थान्तरीयैर्वणितम्, इह व्याख्यानावसरे नवरं केवलं व्याख्येयसूत्रपदानुपन्यासेनेत्यर्थः । कथमित्याह-शत्रुग्रहनष्टाध्वभ्रष्टतज्ज्ञानन्यायेन कस्यचित् क्वचित् पाटलिपुत्रादौ गन्तुं प्रवृत्तस्य काञ्चिद् विषमां भुवं प्राप्तस्य शत्रुग्रहे प्रवृत्तं नष्टस्य ततोऽध्वभ्रष्टस्य मार्गच्युतस्य यस्तज्ज्ञाने मार्गावबोधे न्यायस्तेनेति ।।८६१।। अथैनमेव न्यायं दर्शयति;दतॄण पुरिसमेत्तं दूरे जो तस्स पंथपुच्छत्थं । जुज्जइ सहसा गमणं कयाइ सत्तू तओ होज्जा ।।८६२।। ___दृष्ट्वा समवलोक्य पुरुषमात्रमज्ञातविशेष पुरुषमेव केवलं दूरे महतान्तरेण व्यवधाने नो नैव तस्य विमर्शकारिणः ।।७३४॥ पथिकस्य शत्रुभयाद् मार्गाद्धृष्टस्य पथिच्छार्थं मार्गजिज्ञासानिमित्तं युज्यते घटते सहसाऽपर्यालोच्येत्यर्थः गमन तत्समीपे । कुतो । यतः कदाचिच्छत्रुद्विषन्नपि यद्भयान्नष्टस्तकः पुरुषो भवति ।।८६२ । वेसविवज्जासम्मिवि एवं बालाइएहिं तं गाउं । तत्तो जुञ्जइ गमणं इट्ठफलत्थं णिमित्तेण ॥८६३॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy