________________
उपदेशपदा महाग्रंथः
॥७३४॥
सम्पूर्णैः पदार्थादिभिर्दशितैर्जायते श्रुतभावस्य शास्त्रपरमार्थलक्षणस्यावगमोऽवबोधः श्रोतुः । विपर्यये बाधकमाह--X व्याख्यान इतरथा त्वन्यथा पुनर्भवति विपर्यासो विपरीतशास्त्रार्थप्रतिपत्तिरूपोऽपि, हु शब्दात् संशयानध्यवसायौ गृह्यते । यदि स्वरूपा नामैवं ततः किमित्याह-अनिष्टफलप्रदश्च नरकादिदुर्गतिपातहेतुः पुनः स विपर्यासो नियमादवश्यम्भावेन ॥८६०॥ दृष्टान्तादि __अथैतानेव पदार्थादीन् परमतोपन्यस्त दृष्टान्तद्वारेण साधयितुमिच्छुराह;एएसि च सरूवं अण्णेहिवि वणियं इहं णवरं । सत्तुग्गहणट्ठद्धाणभटुंतण्णाणणाएणं ॥८६॥
एतेषां च पदार्थादीनां स्वरूपमन्यैरपि तीर्थान्तरीयैर्वणितम्, इह व्याख्यानावसरे नवरं केवलं व्याख्येयसूत्रपदानुपन्यासेनेत्यर्थः । कथमित्याह-शत्रुग्रहनष्टाध्वभ्रष्टतज्ज्ञानन्यायेन कस्यचित् क्वचित् पाटलिपुत्रादौ गन्तुं प्रवृत्तस्य काञ्चिद् विषमां भुवं प्राप्तस्य शत्रुग्रहे प्रवृत्तं नष्टस्य ततोऽध्वभ्रष्टस्य मार्गच्युतस्य यस्तज्ज्ञाने मार्गावबोधे न्यायस्तेनेति ।।८६१।।
अथैनमेव न्यायं दर्शयति;दतॄण पुरिसमेत्तं दूरे जो तस्स पंथपुच्छत्थं । जुज्जइ सहसा गमणं कयाइ सत्तू तओ होज्जा ।।८६२।। ___दृष्ट्वा समवलोक्य पुरुषमात्रमज्ञातविशेष पुरुषमेव केवलं दूरे महतान्तरेण व्यवधाने नो नैव तस्य विमर्शकारिणः
।।७३४॥ पथिकस्य शत्रुभयाद् मार्गाद्धृष्टस्य पथिच्छार्थं मार्गजिज्ञासानिमित्तं युज्यते घटते सहसाऽपर्यालोच्येत्यर्थः गमन तत्समीपे । कुतो । यतः कदाचिच्छत्रुद्विषन्नपि यद्भयान्नष्टस्तकः पुरुषो भवति ।।८६२ । वेसविवज्जासम्मिवि एवं बालाइएहिं तं गाउं । तत्तो जुञ्जइ गमणं इट्ठफलत्थं णिमित्तेण ॥८६३॥