________________
। ७३३ ।।
शिष्यविशेषान् मृदुमध्याधिमात्रप्रज्ञाभेदभिन्नान् ज्ञात्वा सूत्रांर्थादिविधिना । "सुत्तत्थों खलु पढमो बीओ निजुत्तिमीसिओ भणिओ । तइओ य निरवसेसेा एस विही होइ अणुओगे ॥१॥" इत्येवंलक्षणेन विशेषितं वाशब्दः प्रकारान्तर सूचनार्थः, स च भिन्नक्रमोऽग्रयोक्ष्यते, कृत्वा विधाय सूत्रमिति गम्यते, व्याख्यानयद् विवृणीयात् । चतुर्द्धा वा सूत्रपदार्थादिभेदेन; इह सूत्रपदानामर्थः पदार्थमात्रीलिंगना, आदिशब्दाद् वाक्यार्थमहावाक्यार्थेदम्पर्यग्रह इति ॥८५८॥ अथेदमेव व्याचष्टे ;
पयवक्कमहावक्कत्थमेदपजं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिद्दिट्ठा ॥ ८५९ ॥
पदं च वाक्यं च महावाक्यं च पदवाक्यमहावाक्यानि तेषामर्थः प्रादुष्कर्त्तव्यः प्रथमतः शिष्यस्य । मकारोऽलाक्षणिकः । एदम्पर्यं च पश्चात् प्रकाशयेत् । एवमत्र व्याख्यान विधिनिर पणायां चत्वारः श्रुतभावावगमे, हंदीत्युप प्रदर्शने, प्रकारा भेदा विनिद्दिष्टा इति । तत्र द्विविधं पदं सुबन्तं तिङन्तं च । पुनरपि सुबन्तं त्रिधा, नामोंपसर्गनिपातभेदात् । तत्र नाम घट इत्यादि, उपसर्गः प्रपरेत्यादि, निपातश्च वाहीत्यादि । तिङन्तं च भवति पचतीत्यादि । एकार्थप्रतिपादकानि पदानि वाक्यं पदार्थचालनार पं, वाक्यान्येव विशिष्टत रैकार्थचालितार्थप्रत्यवस्थानर पं महाव क्यम् । इदं परं प्रधानं यत्र भणने तत् तथा, तद्भाव ऐदम्पर्यं सूत्रार्थभावार्थ इत्यर्थः ॥ ८५९ ॥
अथ कस्मादेषां पदार्थादीनां व्याख्याभेदानामंगीकार इत्याशंक्याह; -
संपुण्णेहि जायइ सुर्यभावावगमो इहरहा उ । होइ विवजासोवि हु अणिटुफलओ य से मि ॥८६० ॥
।।७३३ ।।