SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ॥७३॥ पुण एयं । धम्मो फलं च होज्जा स एव आया मुणयन्वो ॥२॥" तथा । "जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडोव्व हेऊ य से कम्मं ॥१॥" इत्यादि । आगमे च देवलोकपृथ्वीसंख्यादावर्थे आगममात्रगम्ये आगमिकः- आगममात्रप्रज्ञापनाप्रवणः स्वसमयप्रज्ञापक उच्यते । व्यच्छेद्यमाह-सिद्धान्तविराधको जिनवचनानुयोगविनाशकः, अन्यः प्रागुक्तविशेषणविकलः साधुः । तथा हि-युक्तिमार्गसहेष्वप्यर्थेष्वागमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावाद् न श्रोत्ऋणां दृढा प्रतीतिः कर्तुं पार्यते। आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुन्द्रायन्नसम्पादितविवक्षितप्रतीतिनिष्फलारम्भत्वेन स्वयमेव वैलक्ष्यं श्रोतुश्चानादेयस्वभावं प्राप्नुयात्, इति न सम्यक् सिद्धान्तस्तेनाराधितो भवति, विपरीतव्यवहारित्वात् तस्य । ८५३।। एवंविधमुरुसमाश्रयणे फलमाह;('एत्तो सुत्तविसुद्धी अत्थविसुद्धी य होइ णियमेणं । सुद्धाओ एयाओ गाणाईया पयट्टति ॥८५४॥) __इतोऽस्मादेव गुरोः सूत्रविशुद्धिय॑ञ्जनस्वरपदमात्राबिन्द्वादिभिरविकलपाठनेन वचनरूपागमनिर्मलता, अर्थविशुद्धिश्च यथार्थव्याख्यानेनाविपर्यस्तार्थबोधरूपा भवति नियमेन निश्चयेन व्याकरणच्छन्दोज्योतिःशास्त्रादिसिद्धान्तव्याख्यानांगप्रवीणत्वात् तस्य । शुद्धाचास्मात् सूत्रादर्थाच्च ज्ञानादयो मोक्षमार्गभूता अविकलाः प्रवर्तन्ते ॥८५४।। अत्रैव विशेषमाह; सुत्ता अत्थे जत्तो अहिगयरो णवरि होइ कायव्वो। एत्तो उभयविसुद्धित्ति मूयगं केवलं सुत्तं ॥८५५।। सूत्राद् वचनस्वरूपादर्थे तद्व्याख्यारूपे यन्नोऽधिकतरः सुबहुर्भवति । 'नवरि'त्ति नवरं केवलं कर्तव्यः । इतोऽर्थशु१ इयमपि मूलगाथा नास्ति पुस्तकेषु । टीकानुसारेण त्वत्रोपनिबद्धा। RAI॥७३॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy