SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ स्वसमयप्रज्ञापकलक्षणम्-- उपदेशपदा तित्थे सुत्तत्थाणं गहणं विहिणा उ एत्थ तिथमियं । 'ता एयम्मि पयत्तो कायम्वो सुपरिसुद्धम्मि ॥८५१।। महाग्रंथः तीर्थे वक्ष्यमाणलक्षणे सूत्रार्थग्रहणं विधिना तु विधिनैव वक्ष्यमाणेन । अत्र सूशावयवे तीर्थमिदमुच्यते । उभयज्ञश्चैव सूत्रार्थरूपज्ञातव गुरुर्व्याख्याता साधुः विधिश्च सूत्रार्थग्रहणे विनयादिकश्चित्रो नानारूपः । इह विनयः कायिकवाचिक मानसभेदात्रिधा । आदिशब्दाद् वक्ष्यमाणमण्डलीप्रमार्जनादिग्रह इति ॥८५१।। अथ गुरोरेव विशेषतः स्वरूपमाह;-- ॥७३०॥ उभयण्णूवि य किरियापरो वढं पवयणाणुशगी य । ससमयपण्णवओ परिणो य पण्णो य अञ्चत्वं ॥८५२॥ उभयज्ञोऽपि च गुरुः क्रियापरो मूलगुणोत्तरगुणाराधनायां बद्धकक्षो, दृढमत्यर्थं प्रवचनानुरागी च जिनवचनं प्रतिबहुमानत्वात् । तथा, स्वसमयप्रज्ञापकः स्वसमयस्य चरणकरणाद्यनुयोगभेदभिन्नस्य तैस्तैरुपायैः प्ररूपकः । परिणतश्च वयसा व्रतेन च । प्राज्ञश्च बहुबहुविधादिग्राहकबुद्धिमानऽत्यर्थमतीव । एवंविधेन हि गुरूणा प्रज्ञाप्यमानोऽर्थो न कदा| चिद्विपर्ययभाग्भवतीत्येवमेष विशेष्यत इति ।।८५२।। अथ स्वसमयप्रज्ञापकलक्षणं विशेषत आह;-- जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ । सो ससमयपन्नवओ सिद्धतविराहगो अण्णो ।।८५३॥ यः कश्चिद्धेतुवादपक्षे जीवकर्मादी युक्तिमार्गसहे वस्तुनि हेतुवादप्रणयनप्रवीणः । यथा-"बोहसरूवनिमित्तं विसयपरिछेयगं च जं नाणं । विवरीयसरूवाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ ता कह तेसि धम्मो फलं च तं होज्ज जस्स १ सर्वेष्वव्यादर्शपुस्तकेष्वस्यां गाथायामस्मिन् पूर्वगाथोत्तरार्द्धतुरये उत्तरार्धे सत्यपि टीकानुरोधात् “उभयष्णू चेव गुरू विहीय विणयाइओ चित्तो" इत्युत्तरार्धपाठेन भवितव्यम् । ॥७३०॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy