________________
।।७२९॥
इत्येतेषां तोषः प्रमोदो राज्ये स्थितिनिश्चलतारूपा जाता। कालेन सुवर्षमभूत् । सर्वं ततो भद्रं संवृत्तम् ।।८४७॥ एएणाहरणेणं आयाराया सुबुद्धिसचिवेण । दुसमाए कुग्गहोदगपाणगहा रक्खियब्वात्ति ।।८४८॥
एतेनाहरणेन आत्मा राजा वर्तते । स राजकल्प आत्मा सुबुद्धिचिवेन शास्त्रानुसारिणी बुद्धिरेव सचिवस्तेन, दुष्षमायां कुग्रह एव शास्त्रबाधितबोधलक्षणः उदकपानग्रहो जलपानोत्पन्नग्रहरूपस्तस्माद्रक्षितव्य इति ।।८४८।।अत एवाह;बहुकुग्गहम्मिवि जणे तदभोगणुवत्तणाए तह चेव । भावेण धम्मरज्जे जा सुहकालो सुवासंति ॥८४९।। - बहवः प्रभूताः कुग्रहा विपरीतार्थाभिनिवेशरूपा यस्य स तथा तस्मिन्नपि जने लोके वर्तमानकालभाविनि, तदभोगेन तस्य कुग्रहजलस्यानुपजीवनेन याऽनुवर्तनोक्तरूपा तया, तथा चैव राजमन्त्रिदृष्टान्तेनैव, भावेन परिपूर्णसाधुधर्मसाधनेच्छारूपेण धर्मराज्ये सर्वसावद्यविरतिलक्षणे स्थापयित्वा आत्मा रक्षणीय इत्यनुवर्तते। यावच्छुभकालः सुषमादुःषमादिलक्षणः शुद्धसाधुधर्माराधनायोग्यः सुवर्षमिति सुवृष्टिकालतुल्यः समभ्येतीति ॥८४९॥ अस्यैव रक्षणीयोपायमाह;आणाजोगेण य रक्खणा इहं ण पुण अण्णहा णियमा । ता एयम्मि पयत्तो कायब्वा सुपरिसुद्धम्मि ।।८५०।।
आज्ञायोगेन पूर्वमेव निरूपितरूपाजाराधनेनैव रक्षणा परिपालनाऽत्रात्मनि, न त्वन्यथा मणिमन्त्रौषधाद्य पयोगेन मिथ्याचारपरिपालनेन वा नियमान्नियमेन, तथारक्षितस्याप्यकृताज्ञाराधनादिकस्य नरकादिदुर्गतिपातसम्भवेन परमार्थतोऽरक्षणमेव तस्य संपद्यत इति । तत्तस्मादेतस्मिन्नाज्ञायोगे प्रयत्न आदरः कर्तव्यः सुपरिशुद्धे उत्सर्गापवादतया सम्यग् | निर्णीते इति ।।८५०।। अथ परिशुद्धाज्ञायोगोपायमाह;
लहरुलकर
७२९।।