SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ उपदेशपद सामंताईयाणवि दुक्कं वासं दवं च रण्णोत्थि । तेस मंतण णिवगह बंधामो मंतिणाणं ति ||८४६ || महाग्रंथ सिट्टे णत्थि उवाओ तं दग कित्तिमगहो य मिलणंति । तोसो रज्जम्मि ठिती सुवास सव्वं तओ भद्दं ॥ ८४७ ॥ तत्र पृथ्वीपुरे नगरे पूर्णो नाम राजा बुद्धिश्च तस्य मन्त्री सचिव इति । अन्यदा कालज्ञस्य कस्यचित् ज्ञानमभूत् । यथैतन्मासोपरि वृष्टिर्भविष्यति । 'दगगहत्ति' तद्दृष्ट्य दकाच्च पीताद् ग्रह उन्मादः संपत्स्यते लोकानां । 'सुवासं तो ' इति । ततः कियत्यपि काले गते सुवर्षं सुवृष्टिर्भविष्यति । तस्मिश्च सुन्दरे सम्पन्ने सर्वं सुन्दरं भविष्यति । प्रज्ञप्तं तेन राजपुरतः || ८४४ ।। एवं कालज्ञेन कथिते राज्ञा निवेदना लोकस्य -- ' पडहगहत्ति' पटहकप्रदापनेन कृता । तत उदकस्य संग्रहो यत्नतो॒ यथास्थाम यथासामर्थ्यं कृतः सर्वेणापि लोकेन । वृष्टिनिरूपितमासोपरि संवृत्ता, अपानं तज्ञ्जलस्य । क्षीणे संगृहीते जले पाने प्रवृत्ते नव्यनोरस्य ग्रह उन्मादरूपः क्रमात् प्रायो बाहुल्येन लोकस्य संवृत्तः ।। ८४५ ।। सामन्तादीनामपि प्रचुरतरगृहीतादूषितजलानां तज्जलक्षये ढुक्कमुपस्थितं वर्षं दूषितवृष्टिनीरं तेऽपि तत्पीतवन्त इत्यर्थः । द्रवं च पुराणपानीयस्यन्दसंग्रहो राज्ञोऽस्ति न पुनरन्यस्य कस्यचित् । ततो राजाऽग्र हिलतया यदा तेषां सामंतादीनां न काचिचेष्टासु मिलति, तदा तेषां मन्त्रणमभूत् - 'निवगहत्ति' । यथाऽयं नृपोऽस्मासु सत्सु राज्यसुखभागी भवति, अस्मम्मताननुवर्त्तकस्तु क्रियच्चिरं राज्यं करिष्यतीति गृहीत्वा बन्धीम एनम् । एवं मन्त्रयमाणानां तेषां मन्त्रिणो बुद्धेनमभूदिति ।। ८४६ ।। ततः शिष्टे ( ग्रं० १२०००) मन्त्रिणा नृपस्य नास्त्यन्य उपाय एतदनुवर्त्तनमन्तरेण राज्यजीवितव्ययो रक्षणे इति तत्पुराणोदकमुदकं पिबता सता कृत्त्रिमग्रहश्व कृत्रिम एव ग्रहो दर्शितो, राज्ञा मिलनं कृतम् । ततस्तेषां मध्ये ।।७२८।। | अगीतार्थबाहुल्येंगीतीर्थस्थित्युपदेश: ।।७२८ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy