________________
७१३॥
X कारणिकः पृष्ठस्य कथना । कथमित्याह-आममावां चौराविति । ततः शूलया तस्य द्वितीयस्य भेदो जातः । तुः पुन
रर्थः । ततः प्रथमस्य चौर्याभ्युपगमना चौर्यप्रतिपत्तिः 'विहितं मयापि चौर्यम्' इति । ततो गुदभेदेनारोपणं शलायां कृतम्, परमुत्तरणविद्धस्यवं सम्यक् शूलायां संवृत्तमिति ।।८०५॥ विस्मये सर्वलोकस्य देवतया कथना कृता, यथाकृतमिदं चौर्यमेतेन, परं भावतः पश्चात्तापलक्षणात् क्षपितं चौर्यजन्यं कर्म । ततः संवेगाद् व्रतग्रहणं कृतम् तेन तदनु चौरषिः सुप्रसिद्ध इति ॥८०६।। अत्रैव दृष्टान्तान्तरमाह;__ एवं विसिटकालाभावम्मिवि मग्गगामिणो जह उ । पार्वति इच्छियपुरं तह सिद्धि संपयं जीवा ॥८०७॥
एवं-यथा भावविशेषाचौरोऽप्यचोरः संवृत्तस्तथा, विशिष्टकालाभावेऽपि निर्वाणलाभयोग्यसमयविरहेऽपि मार्गगामिनः सत्पथप्रवृत्ता यथा तु यथैव प्राप्नुवन्तीप्सितपुरं पाटलिपुत्रकादि तथा सिद्धिं निर्वृतिलक्षणां साम्प्रतं दुष्षमायां सन्मार्गप्रवृत्ताः सन्तो जीवा भावविशेषाद् अवाप्नुवन्ति, परं कालविलम्बेनेति ॥८०७॥ ___ननु निष्ठुरक्रियासाध्यो मोक्षः, कथं साम्प्रतकालयोग्या मृद्वी क्रिया तद्धेतुः स्यादित्याशंक्याह;मउईएवि किरियाए कालेणारोगयं जह उविति । तह चेव उणिव्वाणं जीवा सिद्ध तकिरियाए ॥८०८।।
मृदयापि साधारणयापि क्रियया घातचिकित्साक्रियया कालेन चिरतररूपेणारोगतां नीरोगभावं यथापयान्ति प्रतिपद्यन्ते, तथा चैव तु तेनैव प्रकारेण निर्वाणमपवर्ग जीवाः सिद्धान्तक्रियया मूलगुणोत्तरगुणप्रतिपालनरूपया साधारणरूपयापीति ॥८०८।। आह-निष्ठुरक्रियापरिपालनरूपं चारित्रं, न चासावद्य दुष्षमायां सम्पद्यते, तत्कयं निर्वाण
॥७१३॥