________________
॥७११॥
नानामनिर्जरार्थिनां चरणं स्यादिति ।।७९९।। अधुना ये कर्मगुरवः प्राणिनो दुष्षमाकालादीन्यालम्बनान्यालम्ब्य सहिष्णवोऽपि तथाविधजनाचरितं प्रमाणीकृत्य निषिद्धसेवां कुर्वन्ति, तेषामपायं दर्शयति ;मारेंति दुस्समाएवि विसायओ जह, तहेव साहूणं । णिक्कारुणपडिसेवा सव्वत्थ विणासई चरणं ॥८००।
मारयन्ति प्राणांस्त्याजयन्ति दुष्षमायामपि, न केवलं सुषमायामित्यपिशब्दार्थः, विषादयस्तालपुटशस्खवह्नयादयों यथा येन प्रकारेण मूर्छासम्पादनादिना; तथैव साधूनां निर्द्धर्माणां वतिनां निष्कारणप्रतिसेवाऽपृष्टालम्बनेन सर्वत्र सर्वास्ववस्थासु विनाशयति विध्वंसयति चरणं चारित्रमिति ॥८००।। अर्थतव्यतिरेकमाह;-- कारणपडिसेवा पुण भावेण असेवणत्ति बटुवा । आणाए तीए भावो सो सुद्धो मोक्खहेउत्ति ।।८०१।। ___ कारणप्रतिसेवा ग्लानाद्यालम्बनेन विरुद्धार्थासेवनरूपा पुनर्भावेन परमार्थतोऽसेवना विरुद्धार्थानासेवनरूपा इत्येवं द्रष्टव्या । कुतो, यत आज्ञायां तस्यां कारणप्रतिसेवायां भावो मनःपरिणामो वर्त्तते भगवताऽस्यामवस्थायामिदं कर्त्तव्यतयोपदिष्टमित्यध्यवसायात् । यदि नामैवं ततः किमित्याह--स भाव आज्ञानुगतः शुद्धः सन्मोक्षहेतुरिति ॥८०१॥
इत्थं कारणप्रतिसेवायामपि शुद्धो भावो मोक्षहेतुरित्युपदर्य साम्प्रतमकृत्येऽप्यर्थे विहिते भावशुद्धिः पापक्षयायेति लोकप्रसिद्धेन दृष्टाम्तेम दर्शयति;अकिरियाएवि सुद्धो भावो पावक्खयत्थमो भणिओ । अण्णेहिवि ओहेणं तेणगणाएण लोगम्मि ॥८०२।।
अक्रियामामपि लोकलोकोत्तरविरुद्धार्थसेवायामपि शुद्धो निर्व्याजः पश्चात्तापानुगतो भावः परिणामः पापक्षयार्थ
॥७११।।