SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ॥७०७॥ अथोत्सर्गापवादयोर्लक्षणमाह;-- दव्वादिएहि जुत्तस्सुस्सग्गो जदुचियं अणुट्टाणं । रहियस्स तमववाओ उचियं चियरस्स न उ तस्स ॥७८४।। द्रव्यादिभिर्युक्तस्य साधोरुत्सग्र्गो भण्यते । किमित्याह-यदुचितं परिपुर्णद्रव्यादियोग्यमनुष्ठानं शुद्धानपानगवेषणादिरूपं परिपूर्णमेव । रहितस्य द्रव्यादिभिरेव तदनुष्ठानमपवादो भण्यते । कीदृशमित्याह-उचितमेव पञ्चकादिपरिहाण्या तथाविधानपानाद्यासेवनारूपम् । कस्येत्याह--इतरस्य द्रव्यादियुक्तापेक्षया तद्रहितस्यैव, न तु नैव तस्य द्रव्यादियुक्तस्य । यत्तदौचित्येनानुष्ठानं स उत्सर्ग', तद्रहितस्य पुनस्तदौचित्येनैव च यदनुष्ठानं सोऽपवादः । यच्चतयोः पक्षयोविपर्यासेनानुष्ठानं प्रवर्तते, न स उत्सग्गेऽिपवादो वा, किं तु संसाराभिनन्दिसत्त्वचेष्टितमिति ॥७८४॥ अथोपदेशसर्वस्वमेवाह;जह खलु सुद्धो भावो आणाजोगेण साणुबंधोत्ति । जायइ.तह जइयव्वं सव्वावत्थासु दुगमेयं ।।७८५।। यथा खलु यथैव शुद्धो रागद्वेषाद्यकलुषितो भावो मनःपरिणामः, आज्ञायोगेन सर्वज्ञवचनानुसारलक्षणेन, सानुबन्धो भवान्तरानुयायी जायते, तथा यतितव्यम् । सर्वावस्थासूत्सर्गकालेऽपवादकाले चेत्यर्थः, द्विकमेतच्छुद्धो भाव आज्ञायोगश्च । एवंलक्षणं कर्त्तव्यम् ॥७८५।। कुतो यतःजं आणाए बहुगं जह तं सिज्झइ तहेत्थ कायव्यं । ण उ जं तव्विवरीयं लोगमयं एस परमत्थो ।।७८६।। यद्यस्माद् आज्ञयोत्सर्गरूपमपवादरूपं वा बहुकं बहुरूपमनुष्ठानं निर्वाणफलमित्यर्थः, 'जायते । तस्माद् यथा तत् ॥७०७।। बलरलकर
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy