________________
॥७०७॥
अथोत्सर्गापवादयोर्लक्षणमाह;-- दव्वादिएहि जुत्तस्सुस्सग्गो जदुचियं अणुट्टाणं । रहियस्स तमववाओ उचियं चियरस्स न उ तस्स ॥७८४।।
द्रव्यादिभिर्युक्तस्य साधोरुत्सग्र्गो भण्यते । किमित्याह-यदुचितं परिपुर्णद्रव्यादियोग्यमनुष्ठानं शुद्धानपानगवेषणादिरूपं परिपूर्णमेव । रहितस्य द्रव्यादिभिरेव तदनुष्ठानमपवादो भण्यते । कीदृशमित्याह-उचितमेव पञ्चकादिपरिहाण्या तथाविधानपानाद्यासेवनारूपम् । कस्येत्याह--इतरस्य द्रव्यादियुक्तापेक्षया तद्रहितस्यैव, न तु नैव तस्य द्रव्यादियुक्तस्य । यत्तदौचित्येनानुष्ठानं स उत्सर्ग', तद्रहितस्य पुनस्तदौचित्येनैव च यदनुष्ठानं सोऽपवादः । यच्चतयोः पक्षयोविपर्यासेनानुष्ठानं प्रवर्तते, न स उत्सग्गेऽिपवादो वा, किं तु संसाराभिनन्दिसत्त्वचेष्टितमिति ॥७८४॥
अथोपदेशसर्वस्वमेवाह;जह खलु सुद्धो भावो आणाजोगेण साणुबंधोत्ति । जायइ.तह जइयव्वं सव्वावत्थासु दुगमेयं ।।७८५।।
यथा खलु यथैव शुद्धो रागद्वेषाद्यकलुषितो भावो मनःपरिणामः, आज्ञायोगेन सर्वज्ञवचनानुसारलक्षणेन, सानुबन्धो भवान्तरानुयायी जायते, तथा यतितव्यम् । सर्वावस्थासूत्सर्गकालेऽपवादकाले चेत्यर्थः, द्विकमेतच्छुद्धो भाव आज्ञायोगश्च । एवंलक्षणं कर्त्तव्यम् ॥७८५।। कुतो यतःजं आणाए बहुगं जह तं सिज्झइ तहेत्थ कायव्यं । ण उ जं तव्विवरीयं लोगमयं एस परमत्थो ।।७८६।।
यद्यस्माद् आज्ञयोत्सर्गरूपमपवादरूपं वा बहुकं बहुरूपमनुष्ठानं निर्वाणफलमित्यर्थः, 'जायते । तस्माद् यथा तत्
॥७०७।।
बलरलकर