SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महाग्रंथः ।।७०६ ।। अथ सर्वनयाभिमतमुत्सग्र्गापवादयेारेकमेव तत्त्वतः स्वरूपमङ्गीकृत्याह ; दोसा जेण निरुम्भंति जेण खिज्जंति पुव्वकम्माई । सो खलु मोक्खोवाओ रोगावस्थासु समणंव ॥ ७८२ ।। दोषा मिथ्यात्वादयेा येनानुष्ठानेनोत्सर्गरूपेणापवादरूपेण वा सेव्यमानेन निरुध्यन्ते सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते ; तथा येन क्षीयन्ते समुच्छिद्यन्ते पूर्वकर्माणि प्राग्भवोपात्तानि ज्ञानावर्णादीनि स खलु स एव मोक्षोपायो मोक्षमार्गः । दृष्टान्तमाह - रोगावस्थासु व्याधिविशेषरूपासु शमनवच्छमनीयौषधमिव । यथा हि "उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्यं च वर्जयेत् ||१||" इति वचनमनुसरन्तो गुरुलाघवालोचने निपुणवैद्यकशास्त्रविदो वैद्यास्तथा तथा चिकित्सां प्रवर्त्तयन्तो रोगोपशमनं जनयन्ति तथा गीतार्थास्तासु तासु द्रव्याद्यापत्सु चित्रान् अपवादान् सूत्रानुसारेण समासेवमाना नवदोषनिरोधपूर्णकृतकर्मनिर्जरणलक्षणफलभाजो जायन्त इति ॥ ७८२ | अथोत्सग्र्गापवादयेास्तुल्य संख्यत्वमाह; - उन्नमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ । इय अन्नोनपसिद्धा उस्सग्गववाय मो तुल्ला ||७८३|| bhaka उन्नतमुच्चं पर्वतादिकमपेक्ष्येतरस्य नीचस्य भूतलादेः प्रसिद्धिबलाबलादेर्जनस्य प्रतीतिः; तथोन्नतस्योक्तरूपस्येतरस्माद् निम्नात् तदपेक्ष्येत्यर्थः प्रसिद्धिः सम्पद्यते । एवं सति यत् सिद्धं तदाह-- इत्येवमुक्तदृष्टान्तादन्योन्यप्रसिद्धाः परस्परमपेक्षमाणाः प्रतीतिविषयभावभाजः सन्त उत्सग्र्गापवादास्तुल्याः समानसंख्याः सम्पद्यन्त इति ॥ ७८३ || उत्सर्गापवादयेार्लक्षणम् ।।७०६ ॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy