________________
।।७०५ ।।
तथैतदनुष्ठानं भणितं, सम्शगुपायत्वात् ।। ७७८।। अत एवाह; -
afa fafafa अणुणातं पडिसिद्धं वावि जिणर्वारिदेहि । तित्थगराणं आणा कज्जे सच्चेण होयध्वं ।।७७९ ।।
नापि नैव किञ्चिद् मासकल्प विहाराद्यनुज्ञातमेकान्तेन कर्त्तव्यमेवेत्यनुमतं, प्रतिषिद्ध वाप्येकान्तेन वारितं न यथा न विधेयमेवेदमिति जिनवरेन्द्र ऋषभादिभिस्तीर्थकरैः । तहि किमनुज्ञातं तैरित्याह - तीर्थकराणा मियमाज्ञा यथा कार्ये सम्यग्दर्शनाद्याराधनारूपे सत्येनाशठपरिणामेन भवितव्यमिति । । ७७९ ।। तथा
मणुयत्तं : जिणवयणं च दुल्लहं भावपरिणतीए उ जह एसा निप्फज्जति तह जइयव्वं पयत्तेण ||७८० ॥
मनुजत्वं मनुष्यजन्मलक्षण, जिनवचनं च सर्वज्ञशासनं दुर्लभं दुरापं वर्त्तते । प्रागुक्तैरेव चुल्लकादिभिर्दृष्टान्तैः । ततः किं कर्त्तव्यमित्याशंक्याह - भावपरिणत्या त्वन्तःकरणपरिणामेनैव न तु बाह्यद्यनुष्ठानेन भावपरिणतिशून्येन तस्यात्यन्तफल्गुत्वात् । यथोक्तं "तात्त्विकः पक्षपातस्तु भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भातुखद्योतयोरिव ॥ १॥ खद्योतकस्य यत्तेजः, तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्रापि भाव्यताम् ||२|| " किमित्याह-यथैषाऽऽज्ञा निष्पद्यते तथा यतितव्यं प्रयत्नेनेति ।। ७८० ॥ आज्ञानिष्पत्त्यर्थं च यत् कर्त्तव्यं तद्विशेषेणाह ; - उस्सग्गववायाणं जहट्ठियसरूवजाणणे जत्तो । कायवो बुद्धिमया सुत्तणुसारेण णयणिउणं ॥ ७८१ ॥
सामान्योक्ता विधिरुत्सग्र्गो, विशेषोक्तस्त्वपवादः । तत उत्सग्र्गापवादयेार्यथास्थितस्वरूपज्ञाने यत्नः कर्त्तव्या बुद्धिमता पुरुषेण सूत्रानुसारेण निशीथाध्ययनादितत्प्रतिपादकागमानुरोधेन नयनिपुणं नैगमादिन्यविचारसारमिति ॥७८१॥
Xexa
।।७०५ ।।