SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महाग्रंथः ।।७०४ ।। मस्खलितरूपं, तथैवात्रापि यतनाविषये विज्ञानं परिशुद्ध विज्ञेयमिति ॥ ७७५ ।। ननु सर्वत्र धर्मार्थिनो लोकस्य तदर्थंपाकादिप्रवृत्तावनेषणीयबाहुल्येनैषणीयविवेकाद् दुष्करं तत्परिज्ञानं कथमिदं दृष्टान्ततयोपन्यस्तमित्याशंक्याह ; - सुत्ते तह पडिबंधा चरणवओ न खलु दुल्लहं एयं । नवि छलणायवि दोसो एवं परिणामसुद्धीए ||७७६ ॥ सूत्रे आगमे पिण्डनिर्युक्त्यादौ, तथेति वक्तव्यान्तरसमुच्चये, प्रतिबंधादत्यादराच्चरणवतो जीवस्य न खलु नैव दुर्लभ दुष्करमेतदनेषणीय विज्ञानम् । न च च्छलनायामपि व्यंसनारूपायां दोषोऽपराधोऽनेषणीयग्रहणरूपः सूत्रप्रतिबन्धात् परिणामशुद्ध रन्तःकरणनैर्मल्यादिति ॥ ७७६ ।। अत्रैव व्यतिरेकमाह ; जयणाविवज्जया पुण विवज्जओ नियमओ उ तिहंपि । तित्थगराणाऽसद्धाणओ तहा पयडमेयं तु ॥७७७ || यतनाविपर्ययाद् उक्तलक्षणा यतना; विपर्ययो व्यत्ययः स्वरूपहानिरित्यर्थः, नियमतस्त्वेकान्तभावादेव त्रयाणामपि सम्यक्त्वादीनाम् । कुत इत्याह- तीर्थकराज्ञायाः 'जयणा उ धम्मजणणी' इत्यादिकाया अश्रद्धानतोऽरोचनात् । तथा तत्प्रकाराद्, न हि रोचमानां यतनामुल्लंघ्य कश्चिदन्यथा व्यवहत्तुं प्रवर्त्तते, प्रवर्त्तते चेत् तहि तस्य तत्र यतनायां न श्रद्धानमस्तीति प्रकटमेतदिति । हि लोकेऽप्युल्लंघ्यमानोऽर्थो गौरवपदमापद्यत इति ।। ७७७॥ तथा; - 'जं दव्वखेत्तकालाइसंगयं भगवया अणुट्टाणं । भणियं भावविसुद्ध निष्फजई जह फलं तह उ ।।७७८॥ यद्यस्माद् द्रव्यक्षेत्रकालादिसंगतं तत्तद्द्रव्यक्षेत्रकालभावानुकूलं भगवताऽर्हताऽनुष्ठानमन्नपानगवेषणादिरूपं भणितं भावविशुद्ध मौदयिकभावपरिहारेण क्षायोपशमिकभावानुगतम्, अत एव निष्पद्यते यथा फलं ज्ञानाद्याराधनारूपं, तथा आज्ञारह ।। ७०४।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy