________________
उपदेशपदः महाग्रंथः
।।७०४ ।।
मस्खलितरूपं, तथैवात्रापि यतनाविषये विज्ञानं परिशुद्ध विज्ञेयमिति ॥ ७७५ ।। ननु सर्वत्र धर्मार्थिनो लोकस्य तदर्थंपाकादिप्रवृत्तावनेषणीयबाहुल्येनैषणीयविवेकाद् दुष्करं तत्परिज्ञानं कथमिदं दृष्टान्ततयोपन्यस्तमित्याशंक्याह ; - सुत्ते तह पडिबंधा चरणवओ न खलु दुल्लहं एयं । नवि छलणायवि दोसो एवं परिणामसुद्धीए ||७७६ ॥
सूत्रे आगमे पिण्डनिर्युक्त्यादौ, तथेति वक्तव्यान्तरसमुच्चये, प्रतिबंधादत्यादराच्चरणवतो जीवस्य न खलु नैव दुर्लभ दुष्करमेतदनेषणीय विज्ञानम् । न च च्छलनायामपि व्यंसनारूपायां दोषोऽपराधोऽनेषणीयग्रहणरूपः सूत्रप्रतिबन्धात् परिणामशुद्ध रन्तःकरणनैर्मल्यादिति ॥ ७७६ ।। अत्रैव व्यतिरेकमाह ;
जयणाविवज्जया पुण विवज्जओ नियमओ उ तिहंपि । तित्थगराणाऽसद्धाणओ तहा पयडमेयं तु ॥७७७ ||
यतनाविपर्ययाद् उक्तलक्षणा यतना; विपर्ययो व्यत्ययः स्वरूपहानिरित्यर्थः, नियमतस्त्वेकान्तभावादेव त्रयाणामपि सम्यक्त्वादीनाम् । कुत इत्याह- तीर्थकराज्ञायाः 'जयणा उ धम्मजणणी' इत्यादिकाया अश्रद्धानतोऽरोचनात् । तथा तत्प्रकाराद्, न हि रोचमानां यतनामुल्लंघ्य कश्चिदन्यथा व्यवहत्तुं प्रवर्त्तते, प्रवर्त्तते चेत् तहि तस्य तत्र यतनायां न श्रद्धानमस्तीति प्रकटमेतदिति । हि लोकेऽप्युल्लंघ्यमानोऽर्थो गौरवपदमापद्यत इति ।। ७७७॥ तथा; - 'जं दव्वखेत्तकालाइसंगयं भगवया अणुट्टाणं । भणियं भावविसुद्ध निष्फजई जह फलं तह उ ।।७७८॥
यद्यस्माद् द्रव्यक्षेत्रकालादिसंगतं तत्तद्द्रव्यक्षेत्रकालभावानुकूलं भगवताऽर्हताऽनुष्ठानमन्नपानगवेषणादिरूपं भणितं भावविशुद्ध मौदयिकभावपरिहारेण क्षायोपशमिकभावानुगतम्, अत एव निष्पद्यते यथा फलं ज्ञानाद्याराधनारूपं, तथा
आज्ञारह
।। ७०४।।