________________
||७०३।।
कालमुपयुक्तः प्रवृत्तावधानो महाप्रज्ञः प्रशस्तोत्पत्तिक्यादिबुद्धिधनो मुनिः । यथा हि कश्चिदेव महाप्राज्ञो रत्नवाणिज्यकारी तद्गतविशेषान् रत्नपरीक्षाशास्त्रानुसारिण्या प्रज्ञया सम्यगुपलभ्य तथैव च मूल्यं व्यवस्थापयति, एवं गीतार्थोऽपि वचनानुसारेण व्यवहारन् विषमावस्थां प्राप्तोऽपि द्रव्यादिविशेषानासेवनीयान् सम्यग्दर्शनादिवृद्धिकरान गईभिन्तराजापहृतश्रमणीरूपनिजभगिनीकालिकाचार्यवजानीते। न हि सम्यक्प्रयुक्तायाः प्रज्ञायाः किञ्चिदगम्यमस्ति । तथा च पठ्यते-- "दूरनिहितंपि निहिं तणबल्लिसमोत्थयाए भूमीए । नयणेहि अपेच्छंता कुसला बुद्धीए पेच्छंति ॥१॥" ॥७७३॥
अत्रैव दृष्टान्तातरमाह-- जह जोइसिओ कालं सम्म वाहिविगमं च वेज्जोत्ति । जाणति सत्थाओ तहा एसो जयणाइविसयं तु ॥७७४।। ___यथा ज्योतिषिको ज्योतिश्चारविशारदः सम्यगविपरीतरूपतया कालं सुभिक्षादिलक्षणं, व्याधिविगमं च जलोदरादिमहाव्याधिविनाशं पुनर्वैद्यः सुश्रुतादिचिकित्साशास्त्राणां सम्यगध्येता पुमान्, इतिः प्राग्वत्, जानात्यवबुध्यते शाखाद् | वराहमिहिरसंहितादेः सुश्रुतादेश्च । तथैष गीतार्थो यतनादिविषयमन्नपानादिप्रतिषेधलक्षणम् । तुशब्द एवकारार्थः । स KI च जानात्येवेत्यत्र संयोजनीय इति ॥७७४॥ तथा;तिविहनिमित्ता उवओगसुद्धिओऽणेसणिजविन्नाणं । जह जायति परिसुद्धं तहेव एत्थंपि विन्नेयं ॥७७५।।
त्रिविधनिमित्तात् कायिकवाचिकमानसिकलक्षणात् परिशुद्धिमागताद् योपयोगशुद्धिर्भक्तादिग्रहणकालप्रवृत्तस्य साधुजनप्रसिद्धस्योपयोगस्य निर्मलता तस्या सकाशादनेषणीयविज्ञानमशुद्धभक्तपानाद्यवबोधो भावयतीनां यथा जायते परिशुद्ध
७०३॥