________________
स्थाकथनम्
उपदेशपदा निष्पद्यते चेष्टया परिमिताशुद्धभक्तपानाद्यासेवनारूपया। यतो यस्मात् कारणात् सा चेष्टा यतना, आशया निशीथादिमहाग्रंथ
ग्रन्थोक्तापवादलक्षणया विपदि द्रव्यक्षेत्रकालभाववैधुर्यलक्षणायामापदि, न पुनर्गुरुलाघवालोचनशून्या परमपुरुषलाघवकारिणी संसाराभिनन्दिजनासेविता प्रवृत्तिर्यतनेति ॥७७१॥ आह-द्रव्याद्यापदि यतना सम्यग्दर्शनादिसाधिकेत्युक्ता।
न च च्छद्मस्थेन यतनाविषया द्रव्यादयो ज्ञातुं शक्याः। कुत इति चेदुच्यते ;॥७०२॥
जं साणुबंधमेवं एवं खलु होति निरणुबंधति । एवमइंदियमेवं नासवण्ण बियाणाति ॥७७२॥
यद्यस्मात् सानुबंधमव्यवच्छिन्नप्रवाहं सम्यग्दर्शनादि, एवं गुरुलाघवालोचनया विरुद्धष्वपि द्रव्यादिषु सेव्यमानेषु सत्सु, एवं गुरुलाघवालोचनामन्तरेण नो सेव्यमानेषु द्रव्यादिषु, खलुक्यालंकारे, भवति निरनुबन्धं समुच्छिन्नोत्तरोत्तरप्रवाहं सम्यग्दर्शनाद्यव । इत्येतत् पूर्वोक्तं वस्त्वतीन्द्रियं विषयभावातीतम्, एवमुक्तप्रकारवान्, नैवासर्वज्ञः प्रथमतो विजानाति निश्चिनोतीति । अतीन्द्रियो ह्ययमों यदित्थं व्यवहियमाणे सम्यग्दर्शनादि सानुबन्धमित्थं च निरनुबन्धं सम्पद्यते, इति कथमसर्वज्ञो निर्णेतुं पारयतीति ॥७७२॥ इत्थमाक्षिप्तः सूरिराहा-- तव्वयणा गीओऽवि हु धूमेग्गिव सुहुचिहिं । मणमाइएहि जाणति सति उवउत्तो महापन्नो ॥७७३।।
तद्वचनात् सर्वज्ञशासनाद् गीत इति गीतार्थो यथावदवगतोत्सर्गापवादशुद्धसर्वज्ञवचनगर्भः साधु विशेषः, कि पुनः सर्वज्ञ इत्यपिहुशब्दाथः; दृष्टान्तमाह;--धूमेनाग्निमिव सूक्ष्मचिह्नः सूक्ष्मः स्थूलमतीनामगम्यश्चिहरासेवकासेवनीयद्रव्याद्यवस्थाविशेषलक्षणे करणभूतैर्जानातीति सम्बन्धः । कीदृशः सन्नित्याह-मनआदिभिर्मनोवाकायरित्यर्थः, सदा सर्व
॥७०२॥