SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ॥७०१॥ भिरधिष्ठितभावादिति । 'आणायारो सेयंति आज्ञाचार आप्तप्रणीतवचनानुष्ठानं श्रेयः कल्याणं वर्तते ।।७६८।। एतेन च दुषमाकालेऽप्याज्ञानुसारिणी यतना समासेवितेति तामेव फलोद्देशेन स्तुवन्नाह - जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तम्वुट्टिकरी जयणा एगंतसुहावहा जयणा ॥७६९।। यतना पुनर्वक्ष्यमाणलक्षणा धर्मजननी प्रथमत एव धर्मप्रसवहेतु: । यतना धर्मस्य श्रुतचारित्रात्मकस्य पालनी उपद्रव निवारणकारिण्येव । तद्वद्धिकरी धर्मपुष्टिहेतुर्यतना, किं बहुना, एकान्तसुखो मोक्षस्तदावहा तत्प्रापिका यतनेति ॥७६९।। एतदपि कुत इत्याह;जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाण । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥७७०।। यतनायां वर्तमानो जीवः सम्यक्त्वज्ञानचरणानां प्रतीतरूपाणां श्रद्धाबोघासेवनभावेन, भावशब्दस्य प्रत्येकमपि सम्बन्धात्, सन्मार्गश्रद्धाभावात्, जीवादितत्त्वावगमभावात्, सम्यक्रियासेवनभावाच्च, कश्चित् परिपूर्णरूपाणामाराधको भणिता जीवो जिनैरिति ॥७७०॥ एतदपि कुत इत्याह;जीए बयतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु । सिमति जयणाए जओ सा जयणाणाइ विवइम्मि ॥७७१॥ ____ यया कयाचित् तत्तदृव्यक्षेत्रकालभावान् अपेक्ष्य चित्ररूपत्वेन प्रवृत्तया बहुकतरासत्प्रवृत्तिनिवृत्तिलक्षणं बहुकतरायाः सुबहार्यतनाकालभाविन्या असत्प्रवृत्तेः शास्त्रनिषिद्धाचरणरूपायास्तथाविधग्लानदुभिक्षकान्ताराद्यवस्थाबलसमायातायाः सकाशाद् या निवृत्तिरात्मनो निरोधस्तल्लक्षणं स्वरूपं यस्य तत् तथा वस्तु सम्यग्दर्शनाद्याराधनारूपं सिद्धयति ॥७.१॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy