________________
॥६६७।।
तह भावसंजयाणं सुबह इह सुहपरंपरासिद्धी । सावि ह जुज्जइ एवं ण अण्णहा चितणीयमिणं ॥७३२॥
तथेति दृष्टान्तान्तरसमुच्चये । भावसंयतानां निर्व्याजयतीनां श्रूयते समाकर्ण्यते इह जिनप्रवचने सुखपरंपरा सिद्धिःप्रतिभवं विशिष्टसुखलाभात् पर्यन्ते निर्वृतिरिति । सापि सुखपरंपरासिद्धिर्न केवलं तत्तद्गत्यादिक्षपणम्, हुर्यस्माद्, युज्यते एवं पापाकरणनियमलक्षणात् प्रकारात्; न नैवान्यथा एतत्प्रकारविरहेण । चिन्तनीयं विमर्शनीयमिदमस्मदीयमुक्तम् ॥७३२॥ एतदेव भावयति;सइ गरहणिज्जवावारबीवभूयम्मि हंदि कम्मम्मि । खबिए पुणो य तस्साकरणम्मी सुहपरंपरओ ॥७३३।।
सदा सर्वकालं गहणीयव्यापारबीजभूते शीलभंगादिकुत्सितचेष्टाविषवृक्षप्ररोहहेतो, हंदीति पूर्ववत्, कर्मणी मिथ्यात्वमोहादी क्षपिते, पुनश्च पुनरपि तस्याकरणे स्वप्नावस्थायामप्यविधाने सुखपरंपरक उक्तरूपः सम्पद्यते ॥७३३॥ आहरणा पुण एत्थं बहवे उसमाइया पसिद्धत्ति । कालोवओगओ पुण एत्तो एक्को पवक्खामि ।।७३४।।
आहरणानि ज्ञातानि पुनरत्र प्रकृतेऽर्थे बहवो भूयांस ऋषभादिका ऋषभभरतादयः प्रसिद्धाः सर्वशास्त्रेषु विख्याताः, इति नात्र तद्वक्तव्यताप्रपंचनमाद्रियते । कालोपयोगतः प्रवर्त्तमानदुष्षमालक्षणः कालोपयोगमाश्रित्य पुनरित ऊर्ध्वमेकमाहरणं प्रवक्ष्यामि ॥७३४॥ एतदेव प्रस्तावयति;- . एपम्मिवि कालम्मी सिद्धिफलं भावसंजयाणं तु । तारिसर्यपि हणियमा बज्माणुट्ठाण मो णेयं ।।७३५।।
एतस्मिन्नपि काले प्रायः कलहडमरकराऽसमाधिकारकैः स्वपक्षगतैः परपक्षगतैश्च जनः सर्वतः संकीर्णे दुष्षमालक्षणे
।।६६७।।