________________
उपदेशपदा यत्स्वर्गनरकाबुभौ । निगृहीतविशिष्टानि स्वर्गाय नरकाय च ॥१।। आपदा प्रथितः पंथाः, इन्द्रियाणामसंयमः । तज्जयः परमतमहाग्रंथ सम्पदामग्रे येनेष्टं तेन गम्यताम् ॥२॥" इत्यादीनीति । कानिचिच्छब्दतोऽर्थतश्च 'जीवदया सच्चवयणं' इत्यादिभिः स्यापि
सद्धचोग्राप्रसिद्धैरेव वाक्यैः सह यथा--"पञ्चतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।
त्यम्॥६२६॥
॥शा" इत्यादीनि । एवं स्थिते तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्येन सह प्रद्वेषः परसमयप्रज्ञापनेयमितीारूपो मोहो मूढभावलक्षणो वर्त्तते बौद्धादिसामान्यधार्मिकजनस्यापि, विशेषतो जिनमतस्थितानां सर्वनयवादसंग्रहान्मध्यस्थभावानीतहृदयाणां साधुश्रावकाणाम् । अत एवान्यत्राप्यनेनोक्तम्--गुणतस्तत्त्वे तुल्ये संज्ञामेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥१॥” इति ।।६९३।। एतत्सर्वं समर्थयन्नाह; -- सव्वप्पवायमूलं दुवालसंग जओ समक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदर तम्मि ॥६९४।।
सर्वप्रवादमूलं भिक्षुकणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणम् । किं तदित्याह-द्वादशाङ्गं द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारः, यतः कारणात्समाख्यातं सम्यक प्रज्ञप्तं सिद्धसेनदिवाकरादिभिः। यतः पठ्यते--"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु
1 ।।६२६॥ * सरित्स्विवोदधिः ।।१।।" अत एव रत्नाकरतुल्यं क्षीरोदधिप्रभृतिजलनिधिनिभं, खलु निश्चयेन, तत् । तस्मात् सर्वमप
रिशेषं सुन्दरं यत् किञ्चित् प्रवादान्तरेषु समुपलभ्यते तत् तत्र समवतारणीयम् । इत्यकरणनियमादीन्यपि वाक्यानि तेषु २ योगाशास्त्रेषु व्यासकपिलातीतपतञ्जल्यादिप्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति । तेषामवज्ञाकरणे