________________
॥६२५॥
समादत्ते प्रायो बाहत्येनानाचारकारणं नरकांदिपातनिमित्तं तत्कर्म इह प्रस्तुतशुभभावलाभे सति । प्रायोग्रहणं च शुभभावलाभेऽपि निकाचिताशुभकर्मणां केषाञ्चित् स्कन्दकार्यादीनामिवानाचारकारणाशुभकर्मबन्धेऽपि मा भूद् व्यभिचार इति । ततोऽनाचारकारणकर्मबन्धाभावाद्विशुद्धचमानः प्रतिदिनमवदायमानमना सिद्धयति निष्ठितार्थो भवतीति जीवो धुतक्लेशः क्षीणसर्वकर्मा ॥६९१॥४॥ अमुमेव क्षयोपशमं परमतेनापि संभावयन्नाह;इत्तो अकरणनियमो अन्नेहिवि वण्णिओ ससथम्मि । सुहभावविसेसाओ न चेवमेसो न जुत्तोत्ति ॥६९२॥
इतोऽस्मादेव कारणादकरणनियम एकान्तत एव पापे प्रवृत्तिरूपः, अन्यैरपि तीर्थान्तरीयैर्वणितो निरूपितः स्वशास्त्रे पातञ्जलादौ । कुतो हेतोरकरणनियम इत्याह--शुभभावविशेषाद् वज्रवदभेद्यात् प्रशस्तपरिणामभेदादेः शास्त्राभ्यासभस्मपरामर्शवशविशदीभूतहृदयादर्शानां भावसाधूनां बंधक्षयोपशम एव परैरकरणनियमनामतयोक्त इति तात्पर्यम् । वर्ण्यतां नामासावन्यैः स्वशास्त्रे, परं न सौन्दर्यभागभविष्यतीत्याह--न चैवं तीर्थान्तरीयोक्तत्वेन हेतुना एषोऽकरणनियमो न युक्तः, किन्तु युक्त एव ।।६९२॥ कुत एतदेवमित्याशंक्याह;-- जं अत्थओ अभिण्णं अण्णत्था सद्दओवि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं । ६९३।।
यद्वाक्यमर्थतो वचनभेदेऽप्यर्थापेक्ष्याभिन्नमेकाभिप्रायम् । तथाऽन्वर्थादनुगतार्थाच्छन्दतोऽपि शब्दसन्दर्भमपेक्ष्य तथा चैवाभिन्नमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते--कानिचिदर्थत एवाभिन्नानि "अप्पा गई वेयरणी अप्पा मे कूडसामली । अप्पा कामदुहा घेणू अप्पा मे गंदणंदणं ॥१॥" इत्यादिभिर्वाक्यर्यथा भारतोक्तानि "इन्द्रियाण्ये व तत्सर्व
॥६२५॥