________________
उपदेशपदः महााग्रंथः
रयणम्मि होइ
अवा दन्ता न्तिकभा वना
ओत्ति । अञ्चत
जायइ विसिटुका
।।६२४
पात्तनिर्जरणफला च चरणरूपा ।।६८७।। एतदेव दृष्टान्तदासन्तिकभावनया गाथाचतुष्टयेन भावयति;सम्म अण्णायगुणे सुंदररयणम्मि होइ जा सद्धा । तत्तोऽणंतगुणा खलु विण्णायगुणम्मि बोद्धव्वा ।।६८८॥ तीएवि तम्मि जत्तो जायइ परिपालणाइविसओत्ति । अच्चतभावसारो अइसयओ भावणीयमिणं ॥६८९॥ एवं सज्झायाइसु णिच्च तह पक्खवायकिरियाहिं । सइ सुहभावा जायइ विसिटुकम्मक्खओ णियमा ॥६९०।। तह जह ण पुणो बंधइ पायाणायारकारणं तमिह । तत्तो विसुज्झमाणो सुज्झइ जीवो धुवकिलेसो ॥६९१।। ____ सम्यग् यथावदज्ञातगुणेऽपरिनिश्चितदारिद्रयोपशमादिमाहात्म्ये सुन्दररत्ने जात्यपद्मरागादिरूहे भवति या श्रद्धा रुचिः स्वभावत एव कल्याणभाजो जीवस्य, ततः श्रद्धाया अनन्तगुणा, खलुरेवकारार्थः, विज्ञातगुणे स्वप्रज्ञाप्रकर्षात् शिक्षागुरूपदेशाद्वा अवगतमाहात्म्ये तत्रैव रत्ने बोद्धव्या ॥६८८॥१॥ तस्या अप्यतिशयवत्याः श्रद्धायाः सकाशात तस्मिन् रत्ने यत्नो जायते । कीदृश इत्याह-परिपालनादिविषय इतीति परिपालनपूजनस्तवनादिरूपोऽत्यन्तभावसारोडतिगाढप्रतिबन्धप्रधानः। अशैवविशेषोपदेशमाह-अतिशयत अत्यादरेणभावनीयमिदमस्मदुक्तम् अपरिभाविते उक्तेऽप्यर्थे सम्यग बोधाभावात् ॥६८९॥२॥ एवं सुन्दररत्नवत्स्वाध्यायादिषूक्तलक्षणेषु नित्यं प्रतिदिनं चतुष्कालाद्याराधनया क्रियमाणेषु तथा पक्षपातक्रियाभ्यां तत्प्रकारात तत्त्वाचरात पक्षपाताच्छक्त्यनुरूपं क्रियातश्च सदा शुभभावात परिशुद्धपरिणामाज्जायते विशिष्टकर्मक्षयो विशिष्टः सानुबन्धो ज्ञानावरणादिकर्मक्षयोपशमो नियमाद् निश्चयेन सम्यचिकित्साप्रायोगादिव तथाविधरोगनिग्रह इति ॥६९०॥३॥ तथा विशिष्टकर्मक्षयों जायते यथा न पुनद्वितीयवारं बध्नाति