SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उपदेशपद: महाग्रंथः गुरुलाघवालोचनापूर्वकस्वाध्यायादि १६२२ वित्ती एगभत्तं च भोयणं" इत्यादिसूत्रतो, हंदीतिपूर्ववत्, एवमेवोक्तप्रकारवदेव एतत्प्रागुक्तं प्रतिपत्तव्यमभ्युपगमनीयम् । खलुक्यालंकारे । पर्वादिषु तद्विधानादुपवासविधानात् । तत्र पर्वाणि चतुर्दश्यादीनि, यथोक्तं व्यवहारभाष्ये- "चउछट्टमकरणे अट्टमिपक्खचउमासवरिसेसु । लहुओ गुरुगो लहुगा गुरुगा य कमेण बोधव्वा' 'पक्ख'त्ति पाक्षिक पर्व, तच्च किल चतुर्दशी, तस्यैव व्यवहारभाष्ये-'चाउद्दसिगा होइ कोई' इत्यादिषु सूत्रेषु चतुर्दशीत्वेन भणनापलंभात । आदिशब्दादातंकादिशेषकारणग्रहः । -यथोक्तम्-"आयके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेउ ५ सरीरवोच्छेयणढाए ६ ॥१॥" अयमत्राभिप्रायः- उक्तकारणविरहेणकभक्तमपेक्ष्योपवासे क्रियमाणे सूत्रपौरुष्यादयः शेषसाधुसमाचारा बहुतरनिर्जराफलाः सीदन्तीति परिभाव्योक्तं नैमित्तिक उपवासो नित्यत्वेकभक्तमिति ।।६८४॥ भूयोऽपि गुरुलाघवालोचनायां किंचित्सावद्यापि प्रवृत्तिर्मतिमतां गुणावहवेति दर्शयन्नाह ;आउत्ताइएसुवि आउक्वायाइजोगसुज्झवणं । पवयणखिसा एयस्स वजणं चेव चितमियं ।।६८५।। ___ आयुक्तादिष्वपि । आयुक्त समयपरिभाषया कल्पत्रयलक्षणे कर्तव्ये, आदिशब्दात् कथञ्चित् तथाविधमातङ्गाद्यस्पृश्यस्पर्शनादौ च सम्पन्ने सति, आगाढशौचवादिधिग्वर्णाद्यत्यन्तसंकीर्णस्थानवासस्य कथञ्चिद् दैवदुर्योगात् प्राप्तौ कजिकादिना वा शौचे विप्लाव्यमानेऽप्कायादियोगशोधनम्-अप्कायेन सचित्तेनाम्भसा, आदिशब्दादनेषणीयेनोष्णोदकलक्षणेन योगस्य कायलक्षणस्य पुरीषोत्सग्दो मलिनीभूतस्य शोधनमपानादिप्रक्षालनेन शुद्धीकरणं कस्यचित् साधोर्गीतार्थस्य तावत् प्रवचनखिसारक्षणार्थं क्वचित् काले सम्पद्यते । एवं च कदाचिदगीतार्थेन साधुना प्रवचनखिसायामशौच ॥२२॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy