________________
उपदेशपद
महाग्रंथ
।। ६२० ॥
अथ गुरुकुलवासः प्रथमं धर्माङ्गमिति प्रपश्यतः पुरस्कुर्व्वशाह; -- आयारपढमसुते सुयं मे इवाइलक्खणे भणिओ । गुरुकुलबासी सक्खा अइणिउणं मूलगुणसूओ ।।६८० ॥
आचर्यते मुमुक्षुभिरासेव्यते इत्याचारो ज्ञानाद्याराधनारूप: पंचप्रकाराराधनारूपः पंचप्रकारस्तत्प्रतिपादकत्वाद् द्वादशाङ्गप्रवचनपुरुषस्य प्रथममङ्गमाचारस्तस्य प्रथमसूत्रे । "सुयं मे इच्चाइलक्खणे" इति श्रुतमित्यादिलक्षणे -- "सुयं मे आउसंतेगं भगवया एवमक्लायं" इत्येवंरूपे भणितो गुरुकुलवासो धर्माचार्यपादान्तेवासित्वलक्षणः साक्षात् सूत्राक्षराभिधेय एवातिनिपुणमतिसूक्ष्मं यथा भवति ऐदम्पर्यपर्यालोचनेनेत्यर्थः, मूलगुणभूतो यतिधर्मप्रधानोपकारक इति । तत्र हि सूत्रे श्रुतं मया आजुषमाणेन भगवत्पादारविन्दं निषेवमाणेन भगवता सिद्धार्थ पार्थिवकुलाम्बरशरच्छशधराकारेण वर्द्धमाननाम्ना जिनेनाख्यातमित्यादिभिरने कैरथैर्व्याख्यायमानेऽवगम्यते, यथा भगवान् सुधर्मस्वामी जम्बूनाम्ने स्वशिष्याय निवेदयति, यथा गुरुपादसेवावशोपलब्धोऽयमाचार ग्रन्थो मया ते प्रतिपाद्यत इति । अतोऽन्येनापि तदर्थना गुरुकुलवासे वसितव्यमिति ख्यापितं भवतीति ।।६८० ।। मूलगुणभूतत्वमेव दर्शयति ; -
णाणस्स होइ भागी थिरतरतो दंसणे चरिते य । धण्णा आबकहाए गुरुकुलवासं ण मुंचति ।। ६८१ ॥
ज्ञानस्य श्रुतज्ञानलक्षणस्याङ्गप्रविष्टादिभेदभाजो भवति भागी पात्रं गुरुकुलवासे वसन् सन् । यथोक्तम्- "गुर्वासा यस्माच्छाखारंभा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा मान्यम् || १ ||” इति । तथा, स्थिरतरोऽत्यतस्थिरो दर्शने तत्त्वश्रद्धानरूपे चरित्रे च विहितेतरवस्तुप्रवृत्तिनिवृत्तिरूपे भवति । न हि विशुद्धगुरुकुलवासमन्तरेण
१ गुरुकुलवा - सस्यादिधर्माङ्गताज्ञानादिलाभवर्ण ०
॥६२० ॥