________________
हितो अचरित्ती एत्थ संसओ नित्थ । चारितम्मि असंते सव्वा दिक्खा निरत्थया" इत्याशंक्याह:णहि एयम्मिवि न गुणो अत्थि विहाणेण कीरमाणम्मि । तं पुण गुरुतरगुणभावसंगयं होइ सम्वत्थ ॥६७८।।
नहि नैवैतस्मिन शुद्धोञ्छादौ, किं पुनः शेषेष्वनुष्ठानेष्वपिशब्दार्थः, न गुण उपकारः, किंतु गुण एवास्ति विधा॥६१९।। 8 नेन सर्वज्ञाज्ञापारतंत्र्यलक्षणेन क्रियमाणे । तत्पुनर्विधानं गुरुतरगुणभावसङ्गतं गुरुतराः शुद्धोञ्छादिसकाशादतिमहान्तो
नवनवतरश्रतज्ञानलाभादयः प्रतिदिनप्रवर्द्धमानातितीव्रसंवेगनिर्वेदफलास्तेषां भावः समुद्भवस्तेन सङ्गतं भवति सर्वत्र सर्वेष्वपि कृत्येषु । यत्र हि नाधिकः कश्चिद् गुणलाभः किन्तु लब्धानामपि गुणानां हानिरुत्पद्यते, तदनुष्ठानमविधिप्रधानमेव बुधबुद्धयत इति ॥६७८॥ एतदेव समर्थयमान आह;तित्थगराणा मूलं णियमा धम्मस्स तीए वाघाए । किं धम्मो किमधम्मो णेवं मूढा वियारंति ॥६७९।।
तीर्थकराज्ञा भगवदहदुपदेशो मूलं कारणं नियमादवश्यं भावेन धर्मस्य यतिगृहस्थसमाचारभेदभिन्नस्य । अतीन्द्रियो ह्यसौ । चान्यस्यासर्वदर्शिनः प्रमातुरुपदेश एतत्प्रवृत्तौ मतिमतां हेतुभावं प्रतिपत्तुं क्षमते, एकान्तेनैव तस्य तत्रानधिकारित्वात् , जात्यन्धस्येव भित्त्यादिषु नरकरितुरगादिरूपालेखने इति । तस्यास्तीर्थकराज्ञाया व्याघाते विलोपे किमनुठानं धर्म', अथवा किमधर्मो वर्त्तते ? अन्यत्राप्युक्तम्--"आणाए च्चिय चरणं तब्भंगे जाण किं न भग्गति । आणं च अइक्वंतो कस्साएसा कुणइ सेसं ? ॥१॥" इति नियामकाभावान्न विवेचयितुं शक्यते यदुतैतदनुष्ठानं धर्मः, इदं चाधर्म इति । न नैवैवमनेन प्रकारेण मूढा हिताहितविमर्शविकला विचारयन्ति मीमांसन्ते ।।६७९।।