SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ हितो अचरित्ती एत्थ संसओ नित्थ । चारितम्मि असंते सव्वा दिक्खा निरत्थया" इत्याशंक्याह:णहि एयम्मिवि न गुणो अत्थि विहाणेण कीरमाणम्मि । तं पुण गुरुतरगुणभावसंगयं होइ सम्वत्थ ॥६७८।। नहि नैवैतस्मिन शुद्धोञ्छादौ, किं पुनः शेषेष्वनुष्ठानेष्वपिशब्दार्थः, न गुण उपकारः, किंतु गुण एवास्ति विधा॥६१९।। 8 नेन सर्वज्ञाज्ञापारतंत्र्यलक्षणेन क्रियमाणे । तत्पुनर्विधानं गुरुतरगुणभावसङ्गतं गुरुतराः शुद्धोञ्छादिसकाशादतिमहान्तो नवनवतरश्रतज्ञानलाभादयः प्रतिदिनप्रवर्द्धमानातितीव्रसंवेगनिर्वेदफलास्तेषां भावः समुद्भवस्तेन सङ्गतं भवति सर्वत्र सर्वेष्वपि कृत्येषु । यत्र हि नाधिकः कश्चिद् गुणलाभः किन्तु लब्धानामपि गुणानां हानिरुत्पद्यते, तदनुष्ठानमविधिप्रधानमेव बुधबुद्धयत इति ॥६७८॥ एतदेव समर्थयमान आह;तित्थगराणा मूलं णियमा धम्मस्स तीए वाघाए । किं धम्मो किमधम्मो णेवं मूढा वियारंति ॥६७९।। तीर्थकराज्ञा भगवदहदुपदेशो मूलं कारणं नियमादवश्यं भावेन धर्मस्य यतिगृहस्थसमाचारभेदभिन्नस्य । अतीन्द्रियो ह्यसौ । चान्यस्यासर्वदर्शिनः प्रमातुरुपदेश एतत्प्रवृत्तौ मतिमतां हेतुभावं प्रतिपत्तुं क्षमते, एकान्तेनैव तस्य तत्रानधिकारित्वात् , जात्यन्धस्येव भित्त्यादिषु नरकरितुरगादिरूपालेखने इति । तस्यास्तीर्थकराज्ञाया व्याघाते विलोपे किमनुठानं धर्म', अथवा किमधर्मो वर्त्तते ? अन्यत्राप्युक्तम्--"आणाए च्चिय चरणं तब्भंगे जाण किं न भग्गति । आणं च अइक्वंतो कस्साएसा कुणइ सेसं ? ॥१॥" इति नियामकाभावान्न विवेचयितुं शक्यते यदुतैतदनुष्ठानं धर्मः, इदं चाधर्म इति । न नैवैवमनेन प्रकारेण मूढा हिताहितविमर्शविकला विचारयन्ति मीमांसन्ते ।।६७९।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy