________________
उपदेशपदः शुद्धोञ्छादिषु साधुसमाचारेषु यत्न आदरः क्रियमाणः केषाञ्चिदलब्धसिद्धान्तहृदयानां गुरुकुलत्यागादिना गुरोः "पडि-गुरुकुलवामहाग्रंथः रूवो तेयस्सी" इत्यादिगाथाद्वयोक्तलक्षणस्य कुलं परिवारो गुरुकुलं तस्य त्यागः प्रोज्झनम, आदिशब्दात्सत्रार्थपौरषो- सत्यागा
त्यागगुणायथाज्येष्ठादिविनयवैयावृत्यादिपरिहारग्रहः, तेनोपलक्षित इह धर्मविचारे विज्ञेयः। कीदृश इत्याह-शबरस्य म्लेच्छरूपस्य
भावभावकस्यचित् सरजस्कानां शैवानां पिच्छार्थं मयूरपिच्छनिमित्तं यो घातो मारणं तत्र यत्पादाच्छपनं चरणसंस्पर्शपरिहाररूपं ॥६१८ ।
तत्तल्य इति । अयमभिप्रायः-कश्चिद्धर्मार्थी सम्यगपरिणतजिनवचनो गुरुकुलवासे तथाविधां भिक्षाशुद्धिमपश्यन् “आ- AKA यन्नयामहाणो कालो विसमो सपक्खिओ दोसो। आइतिगभंगगेणवि गहणं भणियं पकप्पम्मि ॥१॥" इति पञ्चकल्पभाष्यमश्रद्दधानः शुद्धोञ्छार्थी गुरुकुलवासपरित्यागेन विहारमवलम्बते । स च विहारः प्रस्तुतशबरपादाच्छुपनतुल्यो बहुदोषोऽल्पगुणः संभावनीय इति । अा चादित्रिकभंगको यतिधर्मादिभूतोद्गमोत्पादनषणाशुद्धिविनाशः प्रकल्पस्त्वपवादः । प्रस्तुतदृष्टान्तविस्तारार्थश्चैवं ज्ञातव्यः-किल कस्यचिच्छबरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेनाय सम्पद्यते' इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्यत्रान्वेषमाणोऽपि तं न लेभे तदा श्रुतमनेन, यथा-भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चि
॥६१८॥ लेभे । ततोऽसौ शस्त्रव्यापारपूर्व तान्निगृह्य जग्राह तानि पादेन स्पर्श च परिहृतवांस्तेषाम् । यथास्य पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणापहतत्वान्न गुणः, किंतु दोष एव, एवं गुरुकुलवासद्वेषिणां शुद्धोञ्छादि योजनीयमिति ॥६७७॥ - आह-यदि शुद्धोञ्छादयः क्रियमाणा अपि न कञ्चिद् गुणमावहन्ति किंतु दोषमेव, तकिमुच्यते-"पिंडं अविसा