SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ॥६१७॥ रागाविवध्यपटहभूतस्य सुरलोक सौधाध्यारोहसोपानसमस्य श्रुतज्ञानलक्षणस्य या विवर्द्धना विशिष्टा वृद्धिस्तया, एतेषां चरित्रवतां किमित्याह-- कल्याणपरंपरको भद्रभावपरम्पपारूप: सम्पद्यते । कुत इत्याह- गुरुलाघवभावज्ञानाद् गुरुभूथान लघुश्च तद्विपरीतो गुरुलघु तयोर्भायो गुरुलाघवं तेन गुणदोषावपेक्ष्य भावानामुत्सर्गापवादप्रवृत्तिरूपाणां वज्ज्ञानमवबोधस्तस्मात् । इदमुक्तं भवति - ते हि शुद्धचारित्रतया प्रतिदिनं संज्ञानवृद्धौ सत्यां सर्वप्रवृत्तिषु गुणानां दोषाणां यथासंभवं गुरुत्वं लघुत्वं चावलोकमाना गुणगौरवपक्षाश्रयेणैव प्रवर्त्तन्ते । ततोऽस्खलित्तप्रसरां कल्याणपरम्परामवाप्य परमपदभाजो जायन्त इति ।। ६७५ ।। अथासग्रहफलं विभणिषुराह; -- एहि अयता असग्गहा तुच्छबज्जोगम्मि । णिरया पहाणजोगं चयंति गुरुकम्मदोसेण ॥ ६७६ ।। एतद्गुरुलाघवमिह धर्मप्रवृत्तिष्वजानन्तोऽनवबुद्धयमाना असद्ग्रहा मिथ्याभिनिवेशवन्तः केचित् स्वबुद्धिकल्पनया धर्ममाचरन्ताऽपि तुच्छबाह्ययोगे - तुच्छोऽत्यल्प कर्मनिर्जरो बाह्य यथावत् परमगुरुवचनोपयोगशून्यतया शरीरव्यापारमात्ररूपा या योगोऽनुष्ठानं तत्र, निरता अत्यन्तबद्धादराः प्रधानयोगं गुरुकुलवासादिरूपं त्यजन्ति मुञ्चन्ति । केनेत्याह-गुरुकर्मदेाषेण गुरोमिथ्यात्वमोहादेः कर्म्मणो विपाकप्राप्तस्य यो दोषस्तेन ।।६७६ ॥ अत्र च त्यक्तं बाह्ये योगे यादृशः स्यात्तद्दर्शयति ; - सुद्धं छाइसुजत्तो गुरुकुलचागाइनेह विष्णेओ । सबरस रक्खपिच्छत्थघायपायाविनतुल्लो ||६७७।। शुद्ध द्विचत्वारिंशद्दोषविकलः स चासावुञ्छश्च भिक्षावृत्तिरूपः, आदिशब्दाचिद्रव्याद्यभिग्रहासेवनाग्रहः । ततः ॥६१७।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy