SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ साधुसमाचारेषु, तेषां स्वाध्यायादीनामयोगेऽपिं अघटनेऽपि कथमपि द्रव्यादिव्यसनोपनिपातलक्षणेन केनापि प्रकारेण चरणवतो जीवस्य नो नैव पक्षपातक्रिये तु, पक्षपातश्च बहुमानः क्रिया च यथाशक्त्यनुष्ठानम्, अन्यथा विपरीतरूप तया सम्प्रवर्तेते ॥६७१॥ अथ प्रसंगत एवं प्रस्तुतकालमधिकृत्याह॥६१५।। तम्हा उ दुस्समाएवि चरित्तिणोऽसग्गहाइपरिहीणा । पण्णवणिज्जा सद्धा खंताइजुया य विष्णेया ॥६७२॥ यतश्चारित्रिणो द्रव्याद्यापद्यपि न भावः परिवर्तते, तस्मादेव दु:षमायामपि प्रस्तुतकाललक्षणायां सर्वतः प्रवृत्तनिरंकुशासमंजससमाचारायामपि, किं पुनः सुषमदुःषमा-दुःषमसुषमालक्षाणयोरित्यपिशब्दार्थ , चारित्रिणो यथायोग्यं सामायिकच्छेदोपस्थापनीयचारित्रवन्तः साधवा विज्ञेया इत्युत्तरेण योगः। कीदृशाः सन्त इत्याह--असद्ग्रहादिपरिहीणाअसन असंदरो ग्रहः स्वविकल्पात् तथाविधागीतार्थप्रज्ञापकोपदेशाद्वा विपर्यस्तरूपतया कस्यचिच्छास्त्रार्थस्यावधारणमसद्ग्रहः, आदिशब्दात् तत्पूर्वकयोः प्रज्ञापनानुष्ठानयोर्ग्रहः, तैः परिहीणा विप्रमुक्ताः, अत एव प्रज्ञापनीयाः कुतोऽप्यनाभोगादसद्ग्रहादियोगेऽपि संविग्नैर्गीतार्थेश्च प्रज्ञापयितुं शक्याः । तथा, श्राद्धा उत्तरोत्तरानुष्ठानचिकीर्षापरिणामवन्तः क्षान्त्यादियुताः क्षमामाईवादिसाधुधर्मसमन्विताः । चः समुच्चये । विज्ञया बोद्धव्या इति ॥६७२॥ ___अथासदग्रहपरिहाणावेव चारित्रिणो भवन्तीति समर्थयन्नाह;शिणांणम्मि सम्मि य सइ चरणं जं तओ ण एयम्मि । णियमा णसग्गहाइ हवंति भववद्धणा घोरा ॥६७३।। ज्ञाने मति ज्ञानादिलक्षणे, दर्शने च जिनोक्ततत्त्वश्रद्धानलक्षणे सम्यक्त्वे सति विद्यमाने, चरणं चारित्रं यद्यस्मात् | ५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy