________________
परबलविलोलनाय चलितस्य काण्डमपि, किं पुनरुज्ज्वलपुष्पमालादि, लगच्छरीसंस्पर्शमागच्छत् सत्। समीहितसिद्धिTo रेव सर्वत्र निर्वृतिहेतुः स्यात् । समीहितश्च सुभटेन स्वस्वाम्यादेशात् समरसंघट्टे प्रवर्त्तमानेन काण्डादिप्रहार इति कथ-४
मसौ न तल्लाभे वृत्तिमान् स्यादिति ॥६६६।।१।। यथाचवेति दृष्टान्तार्थः । स्वदेशे सौराष्ट्रादौ वर्तमानानां तथा पर॥६१३॥ देशेऽपि मगधादी कुतोऽपि निमित्ताद् गतानां, हंदीत्युपप्रदर्शने धीराणां धैर्यव्रतभाजाम्। किमित्याह-सत्त्वमवैक्लव्य
करमध्यवसानकरं च जीवपरिणतिविशेषलक्षणम्, न नैव चलति क्षुभ्यति, समुपस्थिते तथाविधविरुद्धजनाध्यारो
पितविविधबाधेऽपि कार्ये व्यवहारराजसेवादी पुरुषाणां पुंसाम् । अयमभिप्रायः-यथा स्वदेशे पूर्वपुरुषपरंपरासमावजित1 जनविहितसाहाय्यभाजि न कार्ये क्वचिनिपुणनीतिभाजां मरणाबसानेऽपि सत्त्वहानिर्भवति, तथा विदेशेऽपि केनाप्य
विज्ञातपूर्वापरसमाचाराणां नयनिष्ठुरप्रवृत्तीनां तथाविधव्यसनप्राप्तावपि न सत्त्वभ्रंशः सम्पद्यत इति ॥६६७ ।२।। ER कालोऽपि च दुर्भिक्षादिलक्षणः । इह दुःशब्द ईषदर्थः । ततो भिक्षुकलोकस्य भिक्षाणामीषल्लाभा यत्र तह भिक्षम् ।
आदिशब्दाद् राजकराक्रान्त्यादिशेषदौःस्थ्यग्रहः । ततो दुर्भिक्षादयो लक्षणं यस्य स तथा, नैव दानशूराणाम्, इह त्रिधा शूरः-दानशूरः, सङ्ग्रामशूरः तपःशूरश्च । तत्र दानशूर उत्तराशाधिपतिः कुबेरादिः । सङ्ग्रामशूरो वासुदेवादिः । तपःशूरो दृढप्रहारादिः । तत इतरद्वयपरिहारेण दानशूराणाम् । भिनत्ति चालयत्याशयरत्नमौदार्यातिरेकलक्षणम् । अपिचेति समुचये । अधिकतरं सविशेषं शोधयति समुत्कर्षयति । यथा कस्यचित् समुत्कटमन्मथस्य भोगार्हादिव्यकामिनीसम्प्राप्तौ तद्विकाराः सुदूरमनिवाराः समुज्ज भन्ते, तथा दानशूराणां समंततः समुपस्थितयाचकलोकं कालमवलोक्य सविशेषदान
॥६१३॥