________________
उपदेशपद महाग्रंथ
।६१२।।
भवन्ति विघ्नकरा व्याघातहेतवः । प्रायोग्रहणं च मन्दमेाहादिक्लिष्टकर्मक्षयोपशमवतः शोभनभावविघ्नसंभवेन मा भूत् सर्वत्र व्यभिचार इति । पठ्यते च "निमित्तमासाद्य यदेव किञ्चित् स्वधर्ममार्ग विसृजन्ति बालिशाः । तपः श्रुतज्ञानधना हि साधवो न यान्ति कृच्छ्र परमेऽपि विक्रियाम् ||१|| " । इति । व्यवच्छेद्यमाह - बाह्यक्रियास्तु बहिर्व्यापाररूपाः कायिक्यादयः पुनस्तथा यादृशा द्रव्यादयो वर्त्तन्ते तादृशा एव भवन्ति । नहि द्रव्यादिषु प्रतिकूलभावमागतेषु सामान्यात् शिष्टानां दानादयो, यतीनां चैषणाशुद्धयादयोऽध्ययनादयश्च प्रवत्तन्ते । अत एवोक्तम् ; - "कालस्य य परिहाणि संजम जग्गाई नत्थि खेत्ताइं । जयणाए वट्टियव्वं न हु जायणा भंगए अंगं ||१|| ” अथैतदेवेापचिनोति - लेाकेऽपि शिष्टजनलक्षणे, न केवलमस्माभिरुच्यत इत्यपिशब्दार्थः, सिद्धमिदं यथा न द्रव्यादयः शुद्धभावविघ्नकराः सम्पद्यन्ते ।।६६५।। एतदेव गाथात्रितयेन भावयति ; -
दइया कण्णुप्पलताडणंव सुहडस्स णिव्वई कुणइ । पहुआणाए संपत्थियस्स कंडपि लग्गतं ॥ ६६६ ॥
जह चैव सदेसम्मी तह परदेसेवि हंदि धीराणं । सत्तं न चलइ समुत्थियम्मि कज्जम्मि पुरिसाणं ॥ ६६७॥ कालोव य दुभिक्खा लक्खणो ण खलु दाणसूरांण । भेदइ आसयरयणं अवि अहिगयरं विसोहेई ।। ६६८ ।।
दयिताकर्णे | स्पलताडनवद् -- रतिकेलिकालकुपिताभीष्ट कामिनी साक्षेप करमुक्त कर्णस्थानावतं सितामन्दमकरन्दामोदितमधुकरकुलावकम्पिसहस्रपत्रप्रहतिरिव सुभटस्य रणसंघट्टसमुद्घटित शौर्यप्रकर्षस्य पुंसा निर्वृति समीहितसमरसम्म लाभलक्षणं करोति । कीदृशस्येत्याह - प्रभ्वाज्ञया तत्तत्प्रसादप्रदानप्रमोदसम्पादकनायकनिरूपितादेशलक्षणया सम्प्रस्थितस्य
समितिगुप्ति स्वरूपोपसंहरणम्
॥६१२॥