SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपदेशपद महाग्रंथ ।६१२।। भवन्ति विघ्नकरा व्याघातहेतवः । प्रायोग्रहणं च मन्दमेाहादिक्लिष्टकर्मक्षयोपशमवतः शोभनभावविघ्नसंभवेन मा भूत् सर्वत्र व्यभिचार इति । पठ्यते च "निमित्तमासाद्य यदेव किञ्चित् स्वधर्ममार्ग विसृजन्ति बालिशाः । तपः श्रुतज्ञानधना हि साधवो न यान्ति कृच्छ्र परमेऽपि विक्रियाम् ||१|| " । इति । व्यवच्छेद्यमाह - बाह्यक्रियास्तु बहिर्व्यापाररूपाः कायिक्यादयः पुनस्तथा यादृशा द्रव्यादयो वर्त्तन्ते तादृशा एव भवन्ति । नहि द्रव्यादिषु प्रतिकूलभावमागतेषु सामान्यात् शिष्टानां दानादयो, यतीनां चैषणाशुद्धयादयोऽध्ययनादयश्च प्रवत्तन्ते । अत एवोक्तम् ; - "कालस्य य परिहाणि संजम जग्गाई नत्थि खेत्ताइं । जयणाए वट्टियव्वं न हु जायणा भंगए अंगं ||१|| ” अथैतदेवेापचिनोति - लेाकेऽपि शिष्टजनलक्षणे, न केवलमस्माभिरुच्यत इत्यपिशब्दार्थः, सिद्धमिदं यथा न द्रव्यादयः शुद्धभावविघ्नकराः सम्पद्यन्ते ।।६६५।। एतदेव गाथात्रितयेन भावयति ; - दइया कण्णुप्पलताडणंव सुहडस्स णिव्वई कुणइ । पहुआणाए संपत्थियस्स कंडपि लग्गतं ॥ ६६६ ॥ जह चैव सदेसम्मी तह परदेसेवि हंदि धीराणं । सत्तं न चलइ समुत्थियम्मि कज्जम्मि पुरिसाणं ॥ ६६७॥ कालोव य दुभिक्खा लक्खणो ण खलु दाणसूरांण । भेदइ आसयरयणं अवि अहिगयरं विसोहेई ।। ६६८ ।। दयिताकर्णे | स्पलताडनवद् -- रतिकेलिकालकुपिताभीष्ट कामिनी साक्षेप करमुक्त कर्णस्थानावतं सितामन्दमकरन्दामोदितमधुकरकुलावकम्पिसहस्रपत्रप्रहतिरिव सुभटस्य रणसंघट्टसमुद्घटित शौर्यप्रकर्षस्य पुंसा निर्वृति समीहितसमरसम्म लाभलक्षणं करोति । कीदृशस्येत्याह - प्रभ्वाज्ञया तत्तत्प्रसादप्रदानप्रमोदसम्पादकनायकनिरूपितादेशलक्षणया सम्प्रस्थितस्य समितिगुप्ति स्वरूपोपसंहरणम् ॥६१२॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy