SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥६११॥ X देहाऽसामथम्मिवि आसयसुद्धी ण ओघओ अन्ना । चरणम्मि सुपुरिसो ण हि तुच्छोवि अकज्जमायरति ॥६६४॥ देहासामर्थ्यऽपि दुष्कालरोगवार्द्धकादिकारणहस्य विहितकृत्येष्वसमर्थतायामपि, किं पुनरितरत्रेत्यपिशब्दार्थः, आशयशद्धिः परिणामनर्मल्यरूपा न नवौघतः सामान्येनान्या हीयमाना विपरीतरूपा वा सम्पद्यते । क्व सतीत्याह--चरणे | सर्वसावधपरिहारलक्षणे । यच्चौघत इत्युक्त, तत तथाविधोत्कर्षवशाद् मेघकुमारादीनामिव मनाग मालिन्यमपि कदाचित संभाव्यत इति व्यभिचारपरिहारार्थम् । एतदेव समर्थमान आह--सुपुरुषः शान्तदान्तस्वभावः, स च विशेषतः "असत्सङ्गाद् दैन्यात प्रखलचरितैर्वा बहुविधैरसद्भूतैम तैर्यदि भवति भू तेरभवनिः। सहिष्णोः सबुद्ध: परहितरतस्योन्नतमतेः परा भूषा पंसः स्वविधिविहितं वल्कलमपि" ॥१॥ इत्यध्यवसायप्रधानः पुरुषविशेषः, न नैव हिर्यस्मात् तुच्छोऽपि शरीरविभवसहायादिबलविकलतया कृशीभूतोऽपि, किं पुनरितरः, अकार्य कुलकलंकादिकारणं कृत्यविशेषमैहिकं पारशिकं च | समाचरत्यासेवते । तथा च पठन्ति-"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥१॥" सुपुरुषशिरोरत्नभूतश्च चारित्री, कथमस्यान्यथा भावशुद्धिः सम्पत्स्यते ? इति ॥६६४।। ॥६११।। दव्वादिया न पायं सोहणभावस्स होंति विग्घकरा । बज्झकिरियाओ तहा हवंति लोगेवि सिद्धमिणं ॥६६५।। द्रव्यादयो द्रव्यक्षेत्रकालभावाः कुतोऽपि वैगुण्याद् वाढमननुकूलभावापन्ना न नैव प्रायो बाहुल्येन शोभनः शान्तोदात्तधारिणतिरूपा भावा मनःपरिणतिर्यस्य चारित्रिणः स तथा तस्य, अथवा, शोभनश्चासौ भावश्चोक्तरूप एव तस्य,
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy