________________
॥६११॥
X देहाऽसामथम्मिवि आसयसुद्धी ण ओघओ अन्ना । चरणम्मि सुपुरिसो ण हि तुच्छोवि अकज्जमायरति ॥६६४॥
देहासामर्थ्यऽपि दुष्कालरोगवार्द्धकादिकारणहस्य विहितकृत्येष्वसमर्थतायामपि, किं पुनरितरत्रेत्यपिशब्दार्थः, आशयशद्धिः परिणामनर्मल्यरूपा न नवौघतः सामान्येनान्या हीयमाना विपरीतरूपा वा सम्पद्यते । क्व सतीत्याह--चरणे | सर्वसावधपरिहारलक्षणे । यच्चौघत इत्युक्त, तत तथाविधोत्कर्षवशाद् मेघकुमारादीनामिव मनाग मालिन्यमपि कदाचित संभाव्यत इति व्यभिचारपरिहारार्थम् । एतदेव समर्थमान आह--सुपुरुषः शान्तदान्तस्वभावः, स च विशेषतः "असत्सङ्गाद् दैन्यात प्रखलचरितैर्वा बहुविधैरसद्भूतैम तैर्यदि भवति भू तेरभवनिः। सहिष्णोः सबुद्ध: परहितरतस्योन्नतमतेः परा भूषा पंसः स्वविधिविहितं वल्कलमपि" ॥१॥ इत्यध्यवसायप्रधानः पुरुषविशेषः, न नैव हिर्यस्मात् तुच्छोऽपि शरीरविभवसहायादिबलविकलतया कृशीभूतोऽपि, किं पुनरितरः, अकार्य कुलकलंकादिकारणं कृत्यविशेषमैहिकं पारशिकं च | समाचरत्यासेवते । तथा च पठन्ति-"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥१॥" सुपुरुषशिरोरत्नभूतश्च चारित्री, कथमस्यान्यथा भावशुद्धिः सम्पत्स्यते ? इति ॥६६४।।
॥६११।। दव्वादिया न पायं सोहणभावस्स होंति विग्घकरा । बज्झकिरियाओ तहा हवंति लोगेवि सिद्धमिणं ॥६६५।।
द्रव्यादयो द्रव्यक्षेत्रकालभावाः कुतोऽपि वैगुण्याद् वाढमननुकूलभावापन्ना न नैव प्रायो बाहुल्येन शोभनः शान्तोदात्तधारिणतिरूपा भावा मनःपरिणतिर्यस्य चारित्रिणः स तथा तस्य, अथवा, शोभनश्चासौ भावश्चोक्तरूप एव तस्य,