SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ समितिगुप्तिस्वरूपोपसंहर उपदेशपदःस्थितैकपादः सर्वां रात्रि यावदासितः, तावत्तत्र पादः स्तब्धः सञ्जातस्तम्भोऽभूत् ॥६६०॥५४॥ न च नैवास्थण्डि- लभोगः साधुजनायोग्यभूमिभागपरिभोगलक्षणस्तेन साधुना कृतस्तत्र समये । कीदृशेन सतत्याह-धीरपुरुषेण सात्त्विकेनेत्यर्थः । ततश्च शक्रप्रशंसा यथाऽहो ! साधुरयं दुष्करकारको वर्तते, य इत्थमस्थग्डिलपरिहारेण व्यवस्थितः । तथाशक्रप्रशंसाऽसहिष्णोदेवस्येहागमश्च संवृत्तः । तथेति समुच्चये । भेषणं हस्त्यादिरूपविकुर्वणेन प्रारब्धम्, तथापि तस्य ||६१०॥ महापुरुषस्याक्षोभः क्षोभाभावः सम्पन्नः, मम म्रियमाणस्यापि न काचित् कार्यक्षतिरस्तीत्यध्यवसायादिति ॥६६१।।५५।। यदासी भेषितोऽपि न क्षुभितस्तदा शीतमेव ग्रहः, पारवश्यसम्पादकत्वात, तस्य संपादनं देवेन कृतम् । तत्र चाचलनमङ्गानां शीतबाधितानाम् । ततो दुष्कृतं प्राग्भवोपात्तमित्थमुपस्थितमिति सम्यक् स्थातुं प्रवृत्तः । ततः सुरवन्दना कायप्रणामरूपा, तथा प्रशंसनमहो धन्योऽसि त्वं, तथाऽतीव लोकेनोत्कर्षः प्रमोदो व्यूढ इति ॥६६२ ।। ५६॥ उपसंहरन्नाह ;एवंविहो उ भावो गुणठाणे हंदि चरणरूवम्मि । होति विसिट्टखउवसमजोगओ भव्वसत्ताणं ॥६६३।। ___ एवंविधस्त्वेवंविध एव व्यसनप्राप्तावपि गुप्तिसमित्यनुल्लंघनरूपो भावः परिणामो भवतीत्युत्तरेण योगः । क्व सतीत्याहगुणस्थाने, हंदीति पूर्ववत्, चरणरूपे चारिशलक्षणे भवति विशिष्टक्षयोपशमयोगतो विशिष्टो वज्राश्मवदत्यन्तनिबिडो यश्चारित्रमोहस्य क्षयोपशमः क्षयविशेषस्तद्योगात्, भव्यसत्त्वानां समासन्नीभूतनिर्वृतिगमनानाम् । ये हि निवृत्तचारित्रमाहात्मानो महासत्त्वा मुनयः स्युस्त एव प्राणप्रहाणेऽपि न समितिगुप्तिभङ्गभाजो भवन्तीति ॥६६३॥ कुत एतदिति चेदुच्यते; ॥६१०॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy