________________
॥६.९॥
किं तवायं भवतीति सेनापतिर्भणति ॥६५६॥५०॥ ततो माता ब्रवीति-दुर्जन्मजातः-दुष्टेन जन्मना लब्धप्रादुर्भाव | KM एष साधुः, यतो दृष्टा यूयं, तथापि नापि नैव शिष्टं कथितं यथा-मार्गे चौरसेनापतिरस्ति । अतः कथं केन प्रका
रेण पुत्र इत्येषोऽथ मम वर्तते ? । यो हि पुत्रो भवति, न स मातापित्रादिव्यसनमुपस्थितमुपेक्षते, किन्तु यथाशक्ति निरुणद्धथव । ततः सेनापतिना सविस्मयचेतसा भणितं- कथं नापि नैव शिष्टं भोः साधो ! यथात्र मार्गे चौराः सन्ति ? इत्युक्तेन साधुना धर्मकथा प्रारब्धा, यथा-अस्मिन्ननादौ संसारे जीवानां भ्राम्यतां सताम् । को न बन्धुतया जातः पररूपतया तथा? ॥१॥ अत एव विवेकाढ्या न निह्यन्ति कदाचन । कुत्रापि द्वेषिणो वापि कषायविषनिग्रहात् ॥२॥ तथा; बहु श्रृणोति कर्णाभ्यामक्षिभ्यां बहु पश्यति । न च दृष्टं श्रुतं भिक्षुः सर्वमाख्यातुमर्हति ॥३॥ इत्यादिभिः सुधावर्षसन्निभैर्वचनैः श्रुतैः । सद्यः सेनापतिर्बोधि लब्धवान् दुःखनोदिनीम् ॥६५७॥५१॥ ततश्च आवृत्तः प्रत्यावृत्तः कुपरिणामात् । अत एवोपशान्तो मुक्ता मुत्कलीकृता साधुमाता ममापि त्वमसि मातेति । तथा सव्वं समर्पितं 'से' तस्य यद्विवाहोचितमुपकरणं गृहीतमासीत् । उपसंहरन्नाह-वाग्गुप्तिरेवं प्रस्तुतसाधुवच्छेषसाधुभिः कर्त्तव्येति ॥६५८॥५२॥ . अथ कायिकगुप्तावुदाहरणमुच्यते;-अध्वप्रपन्नको महाटवोमार्गप्रविष्टः कश्चिद् महासाधुः क्वचित्समये समभूत । आवासिते गृहीतावासे सति सार्थे न लभते तत्र सार्थाधिष्ठितायां भुवि स्थंडिलं किञ्चिद्, यत्र साधुसामाचार्यबाधया स्थाबादि विधातुं पार्यते ।।६५९॥५३॥ लब्धं चानेन कथमपि स्थण्डिलमेकः पादो यत्र प्रतिष्ठते । तत्र स्थण्डिले
।।६०९॥