________________
वाग्गुप्तादुदाहरणम्
उपदेशपदा निजं रूपमस्येति निजरूपः स चासो देवश्च तेन वंदना मुनेविहिता। तथा स्तवनं यथा-सुलब्धं ते जन्म, कृतलक्षणः महाग्रंथः ।
समाचारः, सुदृढा मनोनिरोधवृत्तिः; को हि नामान्य इहलोकपरलोकयोरेवं निःस्पृहत्ववृत्तिरिति । ततश्च साधोर्लोके प्रशंसा जाता, यथा-एवमस्य महात्मनो न नैव चित्तभेदः प्रादुरभूत् । तुः पूरणार्थः ॥६५२॥ ४६॥
___ अथ वाग्गुप्ताबुदाहरणं यथा;--कश्चित्साधुः संज्ञापकस्थानं गच्छाम्यहं द्रष्टुमित्यध्यवसितः । तत्र संजानन्तोति संज्ञा1६०८। पकाः सम्यक्प्रत्यभिज्ञानवन्तः स्वजनास्तेषां स्थानं ग्रामनगरादिरूपमिति । मार्ग गच्छतश्चौरग्राहा वृत्तः । गृहीतः साधु ।
विमुच्य भणति तं सेनापतिः--मा शाधि मामत्र स्थितं केषामपि मा कथयेस्त्वमिति ।।६५३।।४७।। यावदसौ कश्चिद् मार्गभागं गच्छति तावचलिता यज्ञयात्रा विवाहप्रवृत्तजनसमूहरूपा । तत्र च संज्ञापकः स्वजनलोकस्तस्य मिलनं संज्ञापकमिलनं 'अंतरा चेव' अन्तराले एव 'गन्तव्यस्थानापेक्षयेति । कश्च स संज्ञापक इत्याशंक्याह-मातापितृभ्रात्रादिः प्रतीतरूप एव । परिभावितं च तेन-किं मम इतोऽग्रता गमनेन, स्वजनदर्शनस्यात्रव भूतत्वात् ? अतो निवर्त्तनमेव सङ्गतमिति सोऽपि निवृत्तः समं सार्द्ध तैरेव संज्ञापकैरिति ॥६५४॥४८॥ स्तेनैश्चौरैर्गृहीताश्च ते मुषिताश्च गृहीतमुषिताः सन्तो मुक्ताः संज्ञापकाः। ततस्ते स्तेना ब्रुवते । कथमित्याह-सोऽयं साधुर्योऽस्माभिः साम्प्रतमेव गृहीत्वा मुक्त इति, तत एतद्वचश्रवणानन्तरं ब्रवीति 'अम्मग'त्ति जननी तस्य साधोः सत्का ॥६५५।।४९।। कथमित्याह-किं सत्यमेतद् यदयं युष्माभिर्गृहीत्वा मुक्तः ? चौराः प्राहुः-आमेवम् । 'आणेह बेइ तो छुरिय'ति आनयत क्षुरिकामिति ब्रवीति ततो माता; यद्यस्माच्छिननि स्तनं (ग्रंथाग्रं-१००००) ननु निश्चितमेतद्गतदुग्धपायितया सापराधत्वात् पयोधरस्य । ततः