________________
उपदेशपदः - महाग्रंथः
पञ्चमसमित्युदाहशरणम्
1५८४ |
स्थाननिक्षेपासनप्रदानादिना योगेन साधुसमाचाररूपेण परितुष्टः पीतपोयूष इव परां प्रीतिमागतः सन यत्नेनादरेणाध- स्तादुपरि च दण्डनिक्षेपस्थानस्य या प्रमार्जना तस्यां समुधु क्तो जातः । यश्चात्राधस्तादुपरीति व्यत्ययेनानयोः पदयोरुपन्यासः कृतः, स च्छन्दोभङ्गभयात् , अन्यथोपर्यधस्तादिति वक्तुमुचितम् । यथोक्तमन्यत्र “उरि हेट्ठा य पमज्जिऊण लट्टि ढवेज्ज सट्टाणे" इति ।। ६४३ ।। ३६ ॥ ततो यावज्जीवमेवं यथैकस्यां वेलायां ग्लान्येऽपि ग्लानभावलक्षणेऽपरिपतित भावः कथञ्चित् क्रियाया अभावेऽपि अत्रुटितपरिणाम आराधकोऽस्याः समितेस्त्रिकरणशुद्धेन भावेन । एतदाराधकश्च सन शेषाणामप्याराधको, भावाद् भावान्तरप्रसूतिनियमात सम्पद्यत इति ।। ६४४ ।। ३७ ॥
अथ पञ्चमसमित्युदाहरणमाह ;-धर्मरुचिर्नाम्ना क्षुल्लकः चरमसमित्या उच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकाभिधानया सम्पन्नः क्वचिद्गच्छे समभूत । स च कथमप्यनाभोगादे: कारणाद् न नैव सन्ध्याकाले प्रेक्षितस्थण्डिल:-- उच्चारप्रस्रवणयोग्यानि स्थण्डिलानि न प्रत्युपेक्षितवान , नापि प्रमाजितवानित्यर्थः। ततो न नव कायिका प्रस्रवणलक्षणं कर्तुमभिलषन्नपि व्युत्सृजति मुञ्चति, रात्रौ स्थण्डिलजीवरक्षादृढबद्धकक्षत्वात् । ६४५।।३८॥ जाता च देहपीडा, प्रस्रवणनिरोधात । ततोऽनुकम्पा देवताया, उत्पन्ना--'मा अयं महानुभाव इत एव देहपीडालक्षणाद् व्यसनाद् मरणं प्रापत' इत्यध्यवसायात तया देवतयाऽकाले प्रभातं तथा कृतं यथा जातः समुद्योत: सूर्यबिम्बोदय इव ।।६४६।।३९।। ततो व्युत्सर्जन प्रस्रवणस्य प्रत्युपेक्षितप्रमाजितस्थण्डिलेन सता कृतं तेन । तत उद्द्योतसंहारे सद्य एवान्धकारं समजायत । हन्त किमिदमिति विमर्शप्रधानस्य चास्य देवे उपयोगः सञ्जातो, ज्ञानच निश्चयो देवविषयो जातस्ततो मिथ्यादुष्कृतं
॥५८४।।