________________
नमस्य सुभगलोकचक्रशिरोमणेः ॥१५६। प्रसङ्गागतमेतच्च नन्दिषेणभवान्तरम । यदुक्तं वसुदेवस्य चरितोद्धारतो - मया ॥१७५॥ इति नन्दिषेणचरितं समाप्तम् ॥
अथ चतुर्थोदाहरणमाह-धिग्जातिाह्मणः सोमिलार्यः सोमिलनामा मुनिः क्वापि गुरुकुले वसति स्म । स च
स्वभावादेवादानादिसमितावादानभाण्डमात्रनिक्षेपणानामिकायां समितावुपयुक्तः सदैव कृतप्रयत्नः समभवद् । एवं काले ॥५८३॥
व्रजति कदाचिद्गुरुणा सन्ध्यासमये भणितो यथा-भद्र ! प्रातामगमनमुपस्थितमास्ते। तेन च गुरुगमनार्थं गुरोग्रामस्य गमननिमित्तमुद्ग्राहणा पात्रवस्त्रादिप्रगुणीकरणरूपा कृता । तु शब्दः समुच्चये, भिन्नक्रमश्च । ततो गमने च प्राप्ते कुतोऽपि निमित्तदोषाद् गुरोनिवर्त्तनमभूत् ।। ६४० ।। ३३॥ तथा मुञ्च सम्यक् प्रत्युपेक्ष्य प्रमायं च यथास्थानमुपकरणमिति प्रेरणा गुरुणा मधुरया गिरा कृता । तेन चाकस्मादेव कियत्संपन्नाऽक्षमापरिणामेन किमत्रोपकरणनिक्षेपस्थाने सर्पस्तिष्ठतीत्येवं प्रतिभणितो गुरुः । ततो मुहूर्तात संविग्नो भावयति चित्तेन सम्पन्नतीव्रपश्चात्तापः । कथमित्याह-'हा' इति खेदे, अयुक्तमनुचितं गुरून प्रति भणितं मया, अविकल्पकरणीयादेशत्वाद् गुरूणाम्, इत्येवं संविग्नः सन् सुरया गुरोरधिष्ठायिकया देवतयाऽनुगृहीतः ।। ६४१ ।। ३४ ॥ कथमित्याह-आदानभाण्डमात्रनिक्षेपस्थानस्थितस्य सर्पस्य यद्दर्शनं तेन । ततः सुष्ठुतरं तद्दर्शनात तीव्रश्रद्धासम्पन्नो दण्डकग्रहनिक्षेपे दण्डकानां विचारभूम्यादेरागतहस्ताद्ग्रहे निक्षेपे चाभिग्रहो मौवेदं कर्त्तव्यमिति प्रतिज्ञावान संजातः सर्वगच्छे ।। ६४२ ।। ३५॥ ततः 'अन्नोनागम'त्ति अन्येषां च साधूनां स्वगच्छयुतानां चागमस्तत्र गच्छे नित्यं समभूत । स चाभ्युत्थानादियोगपरितुष्ट:--अभ्युत्थानपादप्रमार्जनदण्डकग्रहत
५८३।।