SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ लब्धार्थः ससहोदरः । मुमोच चापं सञ्जातप्रसन्नहृदयः क्षणात् ॥१२२॥ वसुदेवो रथं मुक्त्वा यावदायाति संमुखम् । तावदास्यप्लुताक्षेण रथादुत्तीर्य भूभुजा ॥१२३।। पादयोर्निपतन्नेष सर्वाङ्गालिङ्गितः कृतः । ततो मुक्तमहाक्रन्दो प्रवृत्ती तो प्ररोदितुम् ।।१२४।। अक्षोभ्यः स्तिमितोऽन्येऽपि सोदराः स्वजनाश्च ये। लब्धप्रस्तुतवृत्तान्ता ज्येष्ठं संजग्मिरे मुदा ॥१२५।। जरासंधादयो जाताः ससन्तोषा यथोचितः । रोहिण्या जगृहे भर्ती रुधिरश्चाभिनन्दितः ।।१२६।। कृतार्थो॥५८१।। ऽसि सुता यस्य हरिवंशशिरोमणिम् । अवृणीत कृता चास्य पूजा दर्शितसम्भ्रमैः ।।१२७।। यथोचितेन वित्तेन विधिना राजभिस्तकः । शोभने दिवसे प्राप्ते पाणिग्रहविधिः कृतः ॥१२८॥ विभवव्ययेन महता रुधिरेण धराधिपाः। जग्मुः । सम्पूजिताः स्थानं स्वं स्वं प्रीतिभरोद्ध राः ॥१२९।। द्वात्रिंशतं ददौ कोटीहिरण्यस्य नराधिपः । जामातुश्चातुरङ्गं च बलं ददौ मदोत्कटम् ॥१३०।। समुद्र बिजयेनोक्तो रुधिरः स्वपुरं प्रति । कुमारं नेतुमिच्छामः सोत्कण्ठा बान्धवा यतः ।।१३।। आस्तां तावदिहवैष कालं कश्चन मन्मुदे। प्रस्थानसमये राज्ञा कुमारः प्रत्यपद्यत ।।१३२॥ अलं ते हिण्डितव्येन नाम दृष्टः कथंचन । नष्टो भविष्यसि पुनः, पादप्रणतमस्तकः ॥१३३।। बभाण बान्धवान सर्वान मिलितानानकदुन्दुभिः । क्षमणीयोऽपराधो मे यदुद्वेगः पुराकृतः ॥१३४॥ जातः परं तथा कार्य यथा शोको भविष्यति । भवतां स्वप्नकालेऽपि ॥५८१।। मय्यैवार्पितचेतसाम् ॥१३५।। समुद्र विजयप्रमुखा यादवाः सह बान्धवैः । प्रतिजग्मुर्निजं स्थानं तत्रैव स्थितवानसौ | ॥१३६॥ अन्यदा रोहिणी पृष्टा तेन कस्मादहं त्वया । विमुच्य क्षितिपालानशेषानवगीतो वृतस्त्वया ।।१३७॥ देवता र रोहिणी नाम प्रसन्ना मम वर्त्तते । तया निवेदितं भद्रे ! यः स्वयंवरमण्डपे ॥१३८॥ पणवं वादयेत् तस्य भार्यात्वेन
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy