________________
उपदेशपद स्मिन्नुपस्थिते ।। १०४ ।। कुलं बाहुबलेनैव प्रकटं मे भविष्यति । सगर्ध्वं तद्वचः श्रुत्वा जरासंघोऽभ्यधादिदम् ।। १०५।। महाग्रंथ सरत्ननाभं रुधिरं रे रे गृह्णीत सत्वरम् । येन पाणविकोऽप्येष आनीतः पदमीदृशम् ॥ १०६ ॥ तदादेशवशात् सर्वे यावत् क्षोभमुपागताः। तावद् रुधिरराजोऽपि रोहिणीवसुदेववान् ॥१०७॥ समकं रत्ननाभेन प्रविष्टो रिष्टनामके । निज पुरे कृतश्चाथ सन्नाहः समरोचितः ॥ १०८ ॥ विद्याधरप्रभुः पूर्वं वसुदेववशोकृतः । सारथिस्तत्क्षणे जातो लब्धप्रौढबलस्ततः ।। १०९।। निर्गतो नगरादेको लग्नं युद्ध परस्परम् । शितोग्रशर संघातपात च्छिन्नदिगन्तरम् ॥११०॥ तस्यानुमागंश्चलितो रत्ननाभसमन्वितः । रुधिरोऽत्र क्षणं युद्ध्वा निर्जितः प्राविशत् पुरम् ।। १११ ।। विद्याधराधिपतिना सारथित्वमुपेयुषा । सहितः केवलं तस्थौ वसुदेवो रणाङ्गणे ।। ११२ ।। तरुणैणपसंकाशमक्षोभं पुरतः स्थितम् । विलोक्य भूभुजो जाता विस्मयाकुलमानसाः ।।११३ ॥ ततो विमृश्य गदितं पाण्डुना कीर्त्तिपाण्डुना । न राजधर्म एषोऽयं यदेको बहवा वयम् ॥ ११४॥ जरासंधो बभाणाथ कश्चनैकोऽत्र युध्यताम् । एतेन सह या जेता भविता तस्य रोहिणी ।। ११५ ॥ शत्रुञ्जयस्ततः प्राप्तः प्रोज्झन बाणभरं पुनः । वसुदेवेन विहितः क्षणाच्छिन्नरथध्वजः ॥ ११६ । । यमजिह्वातितीव्रेण क्षुरप्रेण कचस्पृशा । एवं कालमुखोऽनेन मुण्डमौलिकृतो नृपः ॥११७॥ एवमन्येऽपि राजानो हतविप्रहताः कृताः । तदा समुद्रविजयः प्रोत्थितो रोषरोषितः ।। ११८ ।। लग्नो मोक्तुं शितान् शरान् स्वजीवितगतस्पृहः । वसुदेवश्च विदितभ्रातृकः प्रहरत्यमुम् ।।११९|| न सर्वथा परं छिन्ते आयुधानि ध्वजानि च । निरायुधविलक्ष्यत्वमानीतं वीक्ष्य तं नृपम् ।। १२० ।। निजनामाङ्कितो मुक्तो लिखितः पूर्वमेव यः । पादवन्दनसंसूचापरमः पुरतः शरः ।। १२१ ॥ गृहीत्वा वाचयित्वाथ
।।५८० ।।
वसुदेवादाहरणम्
।।५८० ।।