SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपदेशपदा जनानां प्रत्यभिज्ञानं वसुदेवोऽयमित्यभूत् । ततस्तस्मादपक्रान्तो वसुधां बहुविस्मयाम ||७०॥ आहिण्डमानः प्रोद्दण्ड- वसुदेवादामहाग्रंथ - चेष्टितः परिणीतवान् । कन्यां विजयसेनाद्या यौवनोदग्रविग्रहाः ॥७१।। कालेन कौशलाभिख्यं देशमागतवानसौ । हरणम्तत्राकाशस्थया देव्या बभाषे सोमया यथा ॥७२।। रोहिणोनामिका कन्या वितीर्णा ते स्वयंवरा। त्रिविष्णुपणवं तत्र विवाहे त्वं च वादयेः ।।७३ । तत्तेनानुमतं सर्वं गतो रिटाभिधं पुरम् । रोहिणी कन्यका लाभसस्पृहर्नरनायकैः ।।४७।। ॥५७८॥ कृतावासर्बहिर्देशे विहितोत्तुंगमण्डपैः । जरासंधादिभिः सर्व राजमानं समंततः ॥७५।। आतोद्यवादकैः सार्द्ध देशे चैकत्र संस्थितः । शृणोत्युद्घोषणां राज्ञा सन्ध्याकाले प्रतिताम् ॥७६।। कल्ये रुधिरराजस्य मित्रादेवीतनूद्भवा । पुत्री या रोहिणी नाम भविताऽस्याः स्वयंवरः ॥७७।। विवाहप्रगुणः सर्वैस्ततो भूत्वा नराधिपः । विवाहमण्डपः सर्वैर्भूषणीयः सभूषणैः ॥७८।। द्वितीये दिवसे सूर्ये पूर्वाव्योममधिष्ठिते । तदाताम्रकरालेपात् कुंकुमेनेव रञ्जितम् ।।७९।। ततो गृहीतशृङ्गारा: कल्पपादपसन्निभाः । तालसिंहादिभिश्चिह्न राजन्तो राजलाञ्छनः ।।८०॥ रभसोल्लासितातोद्यशब्दपूर्णनभान्तराः । उद्दण्डधवलच्छत्रच्छायाछिन्नातपास्तथा ॥८॥ हस्त्यश्वरथयानानि यथायोग्यमधिष्ठिताः। सन्दधानाश्च सम्पूर्णा स्वशोभा बलवाहनः ।।८२॥ प्राप्ताः स्वयंवरस्थाने सन्निविष्टा यथास्थिति । हेमाद्रिशिखरोत्तुङ्गविष्टरस्था यदा ॥५७८॥ स्थिताः ॥८३॥ जरासंधादयः सर्वे राजनश्चलचामराः। तदा स्वयंवरभुवं रोहिणी सर्वतो वृता ॥८४॥ चेटिकाचक्रवालेन वृद्ध रान्तःपुरैर्नरैः । छत्रछन्नशिरोद्देशा चलत्पाण्डुरचामरा ॥८५॥ स्फुरत्सौरभसंभारगृहीतवरमालिका। विहितोदनशृङ्गारा साक्षालक्ष्मीरिवाययौ ॥८६॥ क्रमेण दर्शयामास लेखिका नाम भूपतीन् । अम्बधात्री स्थितानग्रे पुरंदर
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy