________________
कुरु स्नानं मुञ्च खेदं च देहतः ॥५२॥ तथा च विहितं तेन ततः पौरजनैः सह । छायां तरोरशोकस्य बहलां शीतलां श्रितः ॥५३।। ततोऽसौ पुरलोकेन जगदे शृणु सम्प्रति । यदत्र नगरे वृत्तं विजयाख्यो नराधिपः ।।५४।। दुर्वारवैरि
मातङ्गमदमर्दनकेसरो । अस्यास्ति सुजया देवी तस्यास्तद्गर्भसम्भवे ॥५५॥ द्वे पुग्यौ स्तस्तयोरेका श्यामाख्या विजया ॥५७७॥
परा। गान्धर्वे नृत्यमार्गे च परां निष्ठामुपागते ॥५६॥ वितीर्णस्तोषतः पित्रा स्वयंवरविधिस्तयोः। लक्ष्मीभाजनमित्येवं लक्ष्यसे त्वं विचक्षणः ।।५७॥ यद्यस्ति गीते नृत्ये च कौशलं ते ततो व्रज । यतस्ताभ्यां प्रतिज्ञातं सर्वलोकपुरस्सरम् ।।५८।। गीतनत्ये प्रकृष्टो यः स नो भर्ता भविष्यति । समादिष्टा वयं राज्ञा, रूपस्वी तरुणः पुमान् ॥५९।। ब्राह्मणः क्षत्रियो वापि गीतनृत्यविशारदः । द्रुतं कश्चित्समानेयस्तेनोक्तं काचिदस्ति मे ॥६०।। शिक्षा प्रस्तुतविद्यायां दर्शितो भूभुजस्ततः । सस्नेहया दृशा तेन दृष्टः पूजां च लम्भितः ॥६१। तत्रैव राजभवने स्थितश्चाभ्यासवासरे । गन्धर्वनृत्ययोदृष्टे ते कन्ये पुण्यदर्शने ॥६२।। उत्फुल्ललोचनाम्भोजे कुम्भिकुम्भपयोधरे। स्वःसिन्धुसंकताकारपृथुलश्रोणिमण्डले ॥६३।। उन्मत्तकोकिलालापे कोमलस्वरभाषिते । गन्धर्वनृत्यशास्त्रेषु निपुणे अपि तेन ते ।।६४॥ किञ्चिद्विशेषमानीते राज्ञा संस्तुष्टचेतसा । प्रशस्ते वासरे पाणि तेनासौ ग्राहितस्तयोः ॥६५।। राज्यस्याद्ध तथा दत्तं तत्संगमपरायणः । विन्ध्यशैलगजो यद्वत स्वछन्दः संचरन्नसौ ॥६६॥ यावदास्तेऽन्यदा ताभ्यां पत्नीभ्यां समपृच्छयत । चेद् ब्राह्मणकुलो
त्पन्नी भवान् किमिति कौशलम् ।।६७॥ साझाहिकासु सञ्जातं कलासु सकलासु ते । प्रहढे प्रणये तेन सद्भावः पर कथितस्तयोः ॥६८॥ आपन्नसत्त्वा सम्पन्ना श्यामा पुत्रमसूत च । अक्रूर इति तन्नाम स्थापितं तत्र तिष्ठतः ॥६९।।
.५७७॥