________________
11५७.॥
& समीपस्थे गुरावपि ॥१७॥ जातमत्यन्तमुन्मत्तं तत्पुरं परितस्ततः । पुरप्रधाना राजानं संभूयेदं व्यजिज्ञपन् ॥१८॥
देवोऽयं शीलजलधिः कुमारोऽबालचेष्टितः । प्राणभङ्गेऽपि कुरुते चेष्टां नैव मलीमसाम ।।१९॥ सौभाग्यातिशयादस्य परे युवतयः पुरे। दर्शने निस्त्रपीभूता विचेष्टन्ते सविक्रियाः ॥२०॥ ततो राजगृहस्यास्य मध्य एव यथा स्थितिः । संभवेदस्य देवेन स प्रकारो विचिन्त्यताम् ॥२१॥ उक्तः कुमारो राज्ञाऽथ यथावत् स गृहस्थितः । सौकुमार्यात् क्रियाः सर्वाः कर्तुमर्हसि नो बहिः ॥२२॥ ततो विनीतरूपत्वात् स राजन्यगिरं मुदा । मेने पञ्जरसंक्रान्तकीरवत् स्थातुमुद्यतः ॥२३॥ शिवादेव्याः कदाचिच्च सोऽद्राक्षीद् गन्धपेषिकाम् । बृहत्सौरभसंभारगन्धभाजनसङ्गताम् ॥२४॥ स्वज्येष्ठभ्रातृजायायाः सत्केयमिति केलितः। गन्धमुष्टि बलात्तस्या जग्राह ग्रहवानिव ॥२५।। तयासौ बभणे किञ्चिजातरोषातिरेकया। यत एवमनाढयस्तत एव निरुध्यसे ।।२६।। तच्छ्रुत्वा कर्णकटकं वचस्तस्याः शनैरसौ। पप्रच्छ भद्रे ! वृत्तान्तः कीदृशोऽयं निवेद्यताम् ॥२७।। तयाऽप्यूचे पुरस्त्रीणामसमंजसमगलम् । त्वत्तो जातमिति स्वामी त्वां गृहान्तय॑वीविशत् ॥२८॥ निविण्णोऽसौ ततश्चित्ते चिरमेवमचिन्तयत् । निष्कलंकप्रवृत्तम सम्पन्नः कथमीदृशः ॥२९॥ पौरलोकादसद्वादो गच्छामि तदहं दिशम् । एकां काञ्चित्समाश्रित्य यत्रायं मां न पश्यति ॥३०॥ अस्तंगते जगद्वन्धौ भास्करे तिमिरे भरे । विजृम्भमाणे सज्जाक्षे जाते चोलूकमण्डले ॥३१॥ पद्माकरेषु संकोचभावभाक्षु निशामुखे । स्थगिते नगरद्वारे निःसंचारेसु चाध्वसु ॥३२॥ एकाक्यलक्षितः सर्वनिर्जगाम पुरोदरात् । तद्द्वारि मृतकं दग्ध्वा वस्त्रखण्डे लिलेख सः ॥३३।। अंगारक जलेनैवं यथा भ्राता कनिष्ठकः । समुद्रविजयादीनां राज्ञां विश्रुततेजसाम् ॥३४॥ जनापवाद
॥५७५॥