SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ दाहरणम् उपदेशपदर इत्येवमेषणायां यतितव्यं सर्वेण सदा साधुना अदीनभावतोऽक्षीणपरिणामात् सूत्रयोगेन सूत्रानुसारेणेत्यर्थः ।।६३९॥३२॥ वसुदेवामहाग्रंथ | ततोऽसौ नन्दिषेणाख्यः साधुः साधितसाधिमा । अखण्डाभिग्रहो मृत्यो कालेन समुपस्थिते ॥१॥ चकारानशनं भव्या भावयामास भावनाः । अवश्यवेद्यदुष्कर्मविपाकादित्यचिन्तयत् ॥२॥ मन्ये नान्यस्य कस्यापि दुर्भगत्वं तथाऽ॥५७४।। भवत् । यथा ममेति संमूढो निदानमकरोदिदम् ॥३॥ यद्यस्ति तपसा मेऽस्य फलमग्रभवे ततः। समस्तसुभगस्तोमशेखराकारधारकः ॥४॥ भवेयमिति संक्लेशादनुत्तीर्णो मृतश्च सन् । जोतो वैमानिको देवः स्थितो भूरिमनेहसम् ।।५।। तत्रासावायुषो हानौ च्युत्वाऽस्मिन्नेव भारते । नगरे सौर्यपुराभिख्ये समाख्यामुक्तमां गते ॥६॥ समृद्धलोकसंवाससुन्दरे मन्दरोपमै । देवागारैर्वराकार राजमाने पदे पदे ॥७॥ अनेककुलकोटीभिः संकुले नकुलाकृतौ। विपक्षदन्दशूकानामुग्रवरविषात्मनाम् ॥८॥ हरिवंशशिरोरत्नतुल्यस्य वसुधाभुजः । अन्धकवृष्णेः प्रवरपल्यामुत्पन्नवानसौ ॥९॥ गर्भत्वेन तिथौ शुद्ध दोहदे च विनादिते। पर्यन्ते नवमासानां सा तं देवी व्यजीजनत ॥१०।। समुद्रविजयादीनां देवताकारधारिणाम् । दशानामन्तिमं सूनुं सोभाग्यमणिरोहणम् ॥११॥ विहितश्चोत्सवश्चोच्चैर्यादवानन्ददायकः । समयेऽदायि नामस्य | वसुदेव इलाभुजा ।।१२।। बद्धः कलाकलापेन लेभे यौवनमुत्तमम् । अत्रान्तरे पिता राज्यं दत्त्वा प्रथमसूनवे ॥१३।। ||५७४।। & व्रतं गृहीत्वा संसिद्धः सेोऽपि राज्यं यथास्थिति । चक्रे शक्र इव स्वगर्गे बन्धुवृन्दादिनन्दितः ।।१४॥ यदा यदा कुमा रोऽसौ वसुदेवा गृहाबहिः । बम्भ्रमीति तदा तस्य सौभाग्यगुणविह्वलाः ।।१५।। पुरनार्योऽनिवार्येण कौतुकेन कुलस्थिIA तिम व्यतीत्याक्षिप्तमनसस्तमेवैकं विलोकितुम् ।।१६।। स्वगृहोपरिभागस्था गृहद्वारगतास्तथा । वर्तन्ते नो निवर्तन्ते
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy