________________
।। ५७३ ।।
स्थानाद् व्रजाम इति । तथा करिष्यामि वसतिकामध्यप्राप्तं सन्तं भवन्तं 'जहा' हु'त्ति यथा चिरेण शीघ्रमेव 'होहि 'त्ति भविष्यथ नीरोगा यूयम् । ततो ब्रवीति ग्लानो न तरामि गन्तुमितः स्थानात् क्वचिदपि । 'जे' इति वाक्यालंकारार्थः ।।६३३ ।। २६ ।। नन्दिषेणः प्राह - आरोह समारूढो भव पृष्ठौ मदीयायाम् । आरूढस्ततः सः । प्रहारं च मूत्रपुरीषलक्षणं पुनः परमाशुचिमत्यन्तमशुचिरूपम्, अत एव दुर्गन्धं मृतकुथितशृगालमार्जारादिकडेवरादपि विरुद्धगन्धं मुञ्चति पृष्ठिक्लेशक रमत्यन्तासाधारण स्पर्शत्वेन पृष्ठप्रदेशापकारि ॥ ६३४ ।। २७ । ब्रवीति गिरं धिग् मुण्डिन् ! त्वं, वेगविधातो मूत्रपुरीषप्रवृत्तिनिरोधः कृतस्त्वया, इत्यस्माद् दुःखापितो दुःखवान् कृतोऽहमित्येवं नानारूपमाक्रोशति पदे पदे । सोऽपि भगवान् यत्कुरुते तदाह ।। ६३५ ||२८|| न गणयति न मन्यते तां परुषगिरं न च गर्हतेऽपि तं परुषवचनवक्तारं दुरभिगन्धं विलीनगन्धमपि सन्तम् । तहि किं कुरुते इत्याह-- चन्दनमिवं मन्यमानस्तत्पुरीषादि, मिथ्या मे दुष्कृतं यदत्र प्रमादादनुचितमाचरितमिति भणति ॥ ६३६ ।। २९ ।। तथा चिन्तयति मीमांसते- किं करोमि अन्नपानदानादिरूपं कृत्यं कथं तु केन नाम प्रकारेण समाधिर्भवेदस्य साधोः । इत्येवं बहुविधप्रकारं भोजनभङ्गएषणाविघातनिष्ठुराक्रोशादिप्रकारवद्, यथा भवति । नापि नैव तीर्णः शकितो यदा क्षोभयितुम् ॥ ६३७||३०| तदाऽभिष्टुत्यअहो ! सुलब्धं ते जन्म, सफलं जीवितव्यमित्यादिभिर्वचनैस्तं प्रशंस्य गतस्तको देवः । आगतश्चेतरः स्वोपाश्रयम् । आलोचिते यथावस्थितस्वरूपे निवेदिते सति गुरुभिर्धन्य इति भणित्वा, तथेति समुच्चये, समनुशिष्टः स प्रशंसित इति ।।६३८||३१|| अथ प्रस्तुतयोजनामाह; - - यथा तेन नन्दिषेणसाधुना एषणा पानकशुद्धिरूपा नो नैव मिन्ना विनाशिता
।। ५७३।।